________________
व्याश्रयमहाकाव्ये [कुमारपाल:] छत्रिणः कार्यिणो योधिनश्छत्रिकैः कार्यिकै त्यवद्भिः स्ववद्भिर्भटेः। छत्रवान्माल्यवान्कपटी स्वर्मुनिर्वीरवत्याहवे पश्यति मात्र सः ६५
६५. वीरवति भटान्वितेत्राहवे रणे स रणकौतुकी स्वर्मुनिर्नारदो भटैः सह योधिनोवश्यं युध्यमानान्भटान्पश्यति स्म । कीदृक् । छत्रवांश्छत्रिकान्वितस्तथा माल्यवान्पुष्पमालान्वितस्तथा निन्द्यः कर्पटोस्यास्ति कर्पटी कक्षापटान्वितः । कीदृशान्योधिनः । छत्रिणष्ठकुरत्वेन धृतातपत्रांस्तथा कार्यिणो रणव्यापारवतः । किंभूतैर्भटैः। छत्रिकैस्तथा भृत्यवद्भिस्तथा स्ववद्भिर्दानार्थद्रव्यवद्भि तिमद्भिर्वा तथा कार्यिकैः ॥ श्र(स्र)ग्विणी छन्दः॥ धनिनः कपटिका अपि ह्यभूवनसिनः सत्यरणस्तवेषु मूताः। धनिकाधीनधनैरपीह वीरै रसिकैस्त्यागरणक्रियास्वशकैः ॥६६॥
६६. इह रणे सूता भट्टाः कर्पटिका अपि निःस्वत्वेन निन्द्यकर्पटान्विता अपि सत्यरणस्तवेष्ववितथभटयुद्धवर्णनासु रसिनो रसिकाः सन्तो वीरैः कृत्वा धनिन ईश्वरा अभूवन् । यतो धनिकाधीनधनैरप्युत्तमर्णायत्तद्रव्यैरप्यृणग्रस्तैरपीत्यर्थः । परं त्यागरणक्रियासु दानप्रधानेपु रणकर्मसु रसिकैः साभिलाषैः । एतदपि कुत इत्याह । यतोशद्धैर्ऋणभयरहितैरकातरैश्चेत्यर्थः । औपच्छन्दसकापरान्तिका ॥
समित्खलिन्यां भुवि कोप्यशै(शी?)र्षिक:
प्रत्यर्थिकीर्त्यर्थ्यकरोदशीषिणम् । अशीर्षवान्सोपि ननत खगभृत्
प्रत्यर्थिकैरर्थिकवत्परिष्टतः ॥ ६७ ॥ १ ए त्यद्भिः. २ एकर्षटी. ३ ए प्रर्थि'. ४ वी रर्थक. १ बी न्वितोत्रा . २ ए न्योनिधि'. ३ बी पत्रास्त”. ४ बी सी छकै. ५ बी तिम. ६ बी यिकै । श्री. ७सी कैः । स्वग्वि'. ८ सी भटा क. ९ बी निसत्वे. १० ए अभव'.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org