________________
[ है० ७.२.५.] अष्टादशः सर्गः । कुमारिणः खे वरमालिनोमिलशिखावदस्वाशिखिनोनु तेजसा । मालावतोन्वेष्टुममायिनो भटानमायिका नव्यवरानभश्चराः॥६३॥
६३. अमायिका अमायिनो नभश्चरा देवाः खेमिलन् । किं कतुम् । नव्यवरान्नवान्वधूटानन्वेष्टुम् । किंभूतान् । शिखावन्ति दीप्तियुक्तान्यस्त्राणि येषां तान्युध्यमानानित्यर्थः । तथा तेजसा कृत्वा शिखिनो न्वग्नीनिव । तथा मालावतः कण्ठस्थपुष्पमालान्वितांस्तथामायिनो मायायुद्धरहितान् । किंभूताः सन्तः । कुमारिणः कन्यायुक्ता अत एव वरमालिनो वराय माला वरमालास्तदन्विताः कुमार्यभिरुचितवरकण्ठे क्षेप्तुं गृहीतवरमालाः । वंशस्थेन्द्रवंशयोरुपजातिः ॥ नाज्ञाय्येकस्यैकतो गुर्वनीकं मायावद्भिः क्षुण्णमप्यत्र कैश्चित् । वीहिक्षेत्रं व्रीहिकाणां महीयो यद्वल्लनं कापि चाबीहिमद्भिः॥६४॥
६४. स्पष्टम् । किं त्वेकस्य राज्ञ एकत एकस्मिन्प्रदेशे मायावद्भिइछलपरैः कैश्चिद्भटैः । अत्र रणे ब्रीहिक्षेत्रं व्रीहियुक्तं क्षेत्रमव्रीहिमद्भिwहिरहितैश्चौरादिभिः।
नाविकस्य । कुमारिकस्य । इत्यत्र "नावादेरिकः' [ ३ ] इतीकः ॥ “आ. यात्" [२] इति वचनात् “तदस्य ०" [१] इत्यादिना मतुश्च । तेन नौमान्। कुमारीमान् ॥ नौकुमारीभ्यामिनं केचिदाहुः । नावी । कुमारिणः ॥ ।
शिखिनः । शिखावत् । मालिनः । मालावतः ॥ अन "शिखादिभ्य इन्" [४] इतीन् मतुश्च ॥
व्रीहिकाणाम् । व्रीहि । अनीहिमद्भिः। अमायिकाः। अमायिनः । मायावद्भिः । अत्र “व्रीह्यादिभ्यस्तौ” [५] इतीकेनौ मतुश्च । शालिनी छन्दः ॥
१ सी कान्नव्य. २ एहीया य?.
१ वी न्युद्धमा . २ ए त्योंस्तथा. ३ बी °न्वितात्तथा. ४ ए ताः कु. ५ ए सी भाला । वं. ६ एनिस्थल. ७ सी हिमद्भितीहिर". ८ एगिवी हि'.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org