SearchBrowseAboutContactDonate
Page Preview
Page 481
Loading...
Download File
Download File
Page Text
________________ [है० ७.१.१८१.] अष्टादशः सर्गः। ४५७ इन्द्रियैः । इति "इन्द्रियम्" [१७४] इत्यनेन निपात्यम् ॥ कार्मुकचुचुना । धनुश्चणः । अत्र "तेन०" [१७५] इत्यादिना चुचुचणौ ॥ द्विकस्य । इत्यत्र “पूरैणाद्” [१७६] इत्यादिना कः पूरणप्रत्ययस्य लुक् च ॥ द्विकं तृतीयकमस्त्रवेदग्रहणम् । अत्र “ग्रहणाद्वा" [१७७] इति कः पूरणस्य वा लुक् ॥ यत्सस्यकासीनसहन्त वीरा हिरण्यको नो धनकश्च हेतुः । किं त्वत्रंदन्तौष्ठककेशकस्वःस्त्रीकामनानौदरिकोचिताभूत् ॥५८॥ ५८. सस्यकासीन् सस्यशब्दोत्र गुणवचनः । सस्येन परिजाताः सस्यकाः सर्वतः सारेण संबद्धा येसयस्तान यद्वीरा असहन्त । अत्र सस्यकासिसहनविषये हिरण्यको हिरण्ये स्वर्णे कामो नो हेतुर्नापि धनकश्च धनाभिलाषश्च हेतुः । किं त्वत्र दन्तौष्ठकाः केशकाश्च दन्तौप्ठस्य केशानां च रचनायां प्रसक्ता इत्यर्थः । याः स्वःस्त्रियो देव्यस्तासां कामना वाञ्छा हेतुः । किंभूता। अनौदरिकोचितानौदरिकाणामुदरेसक्तानां विजिगीषूणामुचिता योग्या ॥ सस्यक । इत्यत्र "सस्याद्' [१७८] इत्यादिनों कः ॥ धनकः । हिरण्यकः । अत्र “धन” [१७९] इत्यादिना कः ॥ केशक । इत्यत्र “स्वाङ्गेषु सक्ते" [१८०] इति कः। बहुवचनात्खाङ्गसमुदा. यादपि । दन्तौष्ठक ॥ अनौदरिक । इत्यत्र “उदरे तु०" [१८१] इत्यादिनेकण् ॥ उपजातिः ॥ १७ ... .......... ........... १ ए°दन्तोष्वक. १ बी श्त इ. २ बी सी कचञ्चु. ३ बी सी °ना च . ४ बी सी 'त्यस्य पू. ५ सीरणेत्या, ६ ए °यम. ७ सी °णाद् इ. ८ ए रणाको. ९ सी °ण्यस्व. १० ए दन्तोष्ट. ११ बी सी प्रशक्ता. १२ सी रिका. १३ सी रेशक्ता. १४ ए ना क ध°. १५ सी पु शक्त. १६ बीकः । अं. १७ सी रे इ. १८ सी °ण ॥ . Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003629
Book TitleDvyasrayakavya Part 02
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1921
Total Pages628
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy