________________
घ्याश्रयमहाकाव्ये [कुमारपालः ] अनुपदी । इति “अनुपद्यन्वेष्टा" [१७०] इति निपात्यम् ॥ दाण्डाजिनिक । आयःशूलिक । पार्वक । इत्येते "दाण्डाजिनिक०" [१७१] इत्यादिना निपात्याः ॥ केचिद्दण्डाजिनायःशूलाभ्यामिकमेवाहुस्तन्मते दण्डाजिनिक । अयःशूलिकेति ॥ क्षेत्रिय । इत्यत्र "क्षेत्रे०"[१७२] "इत्यादिनेयः॥ वंशस्थेन्द्रवंशयोरुपजातिः॥ द्राक्छ्रोत्रियैश्छान्दसर्वर्जि(जितेन्द्रियै
धनुश्चणः कार्मुकचुचनामिलत् । द्विकं द्विकस्याशु तृतीयकं नु तत्
खंस्यास्ववेदग्रहणं प्रदर्शयन् ॥ ५ ॥ ५७. धनुश्चणो धनुषा वित्तो महाधनुर्धरजातिः । कार्मुकचुञ्चुना कार्मुकेण वित्तेन सह द्रागमिलत् । कीडक्सन् । द्विकस्य द्वितीयेन रूपेणास्त्रवेदग्रन्थग्राहकस्य स्वस्यात्मनो यहिकं द्वितीयमत्रवेदग्रहणं धनुर्वेदाभ्यासस्तत्तृतीयकं नु तृतीयमिव प्रदर्शयन् । द्विवारमभ्यस्तधनुर्विद्योप्युत्कृष्टधनुःकलाप्रकटनात्रिवारमभ्यस्तधनुर्विद्योहमिति लोकाज्ञापयेनित्यर्थः । यथा जितेन्द्रियैः श्रोत्रियैर्वेदमधीयानैर्द्विजैः सह छान्दसा वैदिकाः समानगुणत्वेन मिलन्ति ।
श्रोत्रियैः । अत्र “छन्द०" [१७३] इत्यादिना-इयो वा तत्संनियोगे च छ. न्दसः श्रोनभावः ॥ पक्षेण् । छान्देस ॥
१ सी द्राक्श्रोत्रि. २ बी सी वर्जिते'. ३ बी सी कचन्नु. ४ सी स्वशास्त्र'. ५ ए यत् ॥ ध.
१ बी म् । दण्डा. २ ए बी निकः आ. ३ ए °लिकः । पा. ४ ए निकैः । अं. ५ बी सी कचञ्च. ६ ए केन वि. ७ ए कस्या ८ सी सस्तृती. ९ बी र्शदय'. १० बी नुवियो' ११ बी सी योयमि'. १२ सी यदित्य. १३ सी यो त. १४ बी न्दसः । ई.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org