SearchBrowseAboutContactDonate
Page Preview
Page 482
Loading...
Download File
Download File
Page Text
________________ व्याश्रयमहाकाव्ये [कुमारपालः ] अप्युष्णकां तत्रकवत्रखण्डलं वा शीतकः किं लभतेंशकोपि हि । इत्युंष्णकैर्ब्राह्मणकोद्भवैर्बलेधिकैर्भृशं कीर्त्यनुकैर्विचक्रमे ॥ ५९ ॥ ५९. ब्राह्मणकोद्भवैः सदाचारब्राह्मणेभ्यस्तदानीमेवोद्धृत्य पृथकृतो ब्राह्मणको देश यत्रायुधजीविनः काण्डस्पृष्टा नाम ब्राह्मणा भवन्ति । आयुधजीवी ब्राह्मण एव ब्राह्मणक इत्यन्ये । तत्रोद्भवैटैर्विचक्रमे विक्रमः कृतः । किंभूतैः । उष्णकैरुष्णं क्षिप्रं कुर्वद्भिर्दक्षैरित्यर्थः । तथा बले सामर्थ्यधिकैरध्यारूढैस्तथा कीर्त्यनुकैः कीर्तिकामयमानैः । कुतो विचक्रमे । इति हेतोः । तमेवाह । हि यस्मादेशं हार्यंशकोपि दायादपि शीतं मन्दं करोति शीतकोलसः सन् किं लभते नैवेत्यर्थः । किमित्याह । उष्णादचिरोद्धृतोष्णिका तामप्यास्तामन्यद्यवागूमपि । यद्वा तत्रात्तन्तुवायोपकरणादचिरोद्धृतं तत्रकं यद्वस्त्रं तस्य यत्खण्डलं खण्डं तदपीति ॥ ४५८ अंशकः । अत्र "अंश हारिणि " [१८२ ] इति कः ॥ तन्त्रक । इत्यत्र “तन्त्राद्०” [१८३] इत्यादिना कः ॥ ,, ब्राह्मणक । इत्यत्र “ब्राह्मणान्नाम्नि ” [१८४ ] इति कः ॥ उष्णिकाम् । अत्र “उष्णात् " [१८५ ] इति कः ॥ शीतकः । उष्णकैः । अत्र “शीताच्च कारिणि " [१८६] इति कः ॥ अधिकैः ः । अत्र “अधेरारूढे " [१८७ ] इति कः ॥ अनुकैः । अत्र “अनोः कमितरि" [ १८८ ] इति कः ॥ इन्द्रवंशावंशस्थयो रुपजातिः ॥ Jain Education International 9 १ सी वा सीत. २ युष्णुकै १ ए वोट'. २ सी देगे. ३ सीमर्थ्यापि ४ बीस किं. ५ सी 'णादिचि' ६ ए 'वादिना. ७ बी णिकम्. For Private & Personal Use Only www.jainelibrary.org
SR No.003629
Book TitleDvyasrayakavya Part 02
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1921
Total Pages628
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy