SearchBrowseAboutContactDonate
Page Preview
Page 477
Loading...
Download File
Download File
Page Text
________________ [ है ० ७.१.१५९. ] अष्टादशः सर्गः । ४५३ थोमरपूगतिथस्तद्भावं देवत्वमित्यर्थः । कीदृशाः सन्तः । गणतिथैर्गणानां बहूनां पूरणैर्भर्हताः । तत्र तु रणे कतिथैः कतीनां पूरणैर्भटैश्चमूर्विरहितेति प्रश्ने । इयतिथैरियतां पूरणैर्विरहितेतीदं न किंचिदबुध्यत सैन्यानामति बहुत्वान्न किमपि ज्ञातम् ॥ द्रुतविलम्बितम् ॥ बलकतिपयथः कोपि दोर्द्वितीयस्तूणतृतीयः सद्धनुश्चतुर्थः । पष्ठं तुर्यं विद्विषं नृपस्य च भर्त्रात्मनस्तुरीयः ॥ ५४ ॥ ढें ५४. कोपि भटो भर्त्रा नृपेणात्मनस्तुरीयश्चतुर्थश्चक्रेतिमान्यत्वादात्मनश्चतुर्थस्थाने कृत इत्यर्थः । यतो नृपस्यारिभूपस्य तुर्यं षष्ठं च चतुर्थ - स्थानीय पष्ठस्थानीयं च विद्विषं घ्नन् । कीदृक्सन् । दोषौ बाहू द्वितीयो यस्य सः । तथात्मैभुजापेक्षया तूणौ तृतीयौ यस्य सः । तथात्मभुजतूणापेक्षया सद्धनुश्चतुर्थं यस्य सः । तात्पर्येणैका कीत्यर्थः । एकाकी चेत्कथमसौ तादृशौ द्विषावन्नित्याह । यतो बळकतिपयथो बलेन कतिपयानां तोकानां पूरणो बलेन कियन्तोपि तादृशा इत्यर्थः ॥ विंशतितमस्य । एकविंशी । त्रिंशत्तमस्य । त्रिंशी । इत्यत्र “विंशति ० " [१५६ ] आदिना वा तम ॥ शततमी । सहस्रतमस्य । मासतम्याः । अर्धमासतम्योः । संवत्सरतमी । इत्यत्र “ शतादि ० " [१५७] इत्यादिना तमद्र ॥ षष्टितम । अशीतितम । इत्यत्र “षष्ट्यादेर्०" [१५८ ] इत्यादिना तमद ॥ असंख्यादेरिति किम् । एकषष्टितम । एकपष्टः ॥ पञ्चमः । अत्र "नो मद" [१५९ ] इति मद ॥ १ सी स्तद्भवं. २ एदं ना किं. ३ सीब. ५ सी यं च. ६ बी बाहौ द्वि'. ७ सी 'त्मनो भु. ९ बी. १० सी 'तमः । ए, Jain Education International ४ बी 'कश्च'. ८ बी त्रिंशतीत्य. For Private & Personal Use Only www.jainelibrary.org
SR No.003629
Book TitleDvyasrayakavya Part 02
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1921
Total Pages628
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy