________________
व्याश्रयमहाकाव्ये [ कुमारपालः] पूरणी संवत्सरतम्यक्षयतृतीयादिस्तथार्धमासस्य पूरण्यर्धमासतम्यमावास्या पूर्णिमा वा । द्वन्द्वे तयोस्तिथ्योर्यत्पर्व हर्षक्रियारूप उत्सवस्तदिवाहवं विजानन् । ईदृशोपि कुत इत्याह । यतो महौजाः शौर्यातिरेकेणोत्सवमिव रणं प्राप्यापि हृष्यन्नित्यर्थः ॥ औपच्छन्दसकापरान्तिका छन्दः ॥ एकपष्ट इव कोपि कौरवः कोपि पश्चम इवाथ पाण्डवः । युन्मुदं बहुतिथादिनांदवापैकपष्टितमहायनोपि हि ॥५२॥
५२. कोपि भटो हि स्फुटमेकपष्टितमहायनोप्येकषष्टिपूरणवर्षोपि कथमप्येकषष्टिवर्षमध्ये युद्धाप्राप्त्या बहुतिथादहूनां दिनानां पूरणादिनाचिरकालादित्यर्थः । युन्मुदं रणहर्षमवाप । यथैकषष्ट एकषष्टेः पूरणः कौरवः सेनान्याख्यो बहुतिथादिनाद्युन्मुदमवाप । अथ तथा यथा पञ्चमः पाण्डवः सहदेवो बहुतिथादिनाद्युन्मुदमवापैवं कोप्यपरोपि भटः । किल सेनानीः सहदेवश्च कुरुपाण्डवयुद्धे युन्मुदमवापतुस्तच्च युद्धं पाण्डवानां कुरूणां च सर्वेषामपि षष्टितमवर्षानन्तरमेव मिथो बभूवेति भारतम् ॥ रथोद्धता ॥ गणतिथैरिह संघतिथा भटैरमरपूगतिथत्वमयुर्हताः । विरहितेयतिथैः कतिथैश्चमूरिति न किंचिदबुध्यत तत्र तु ॥५३॥ ___५३. इह रणे संघतिथाः संघानां बहूनां पूरणा भी अयुः प्रापुः । किम् । अमरपूगतिथत्वं पूगानां बहूनां पूरणः पूगतिथोमराणां पूगति___ १ ए सी °पि कोर. २ बी नादिवा'. ३ ए तितथा. ४ ए हतः । वि".
१ ए °स्तद्दिवा. २ बी प्यातिह. ३ सी रणो व. ४ बी युद्धप्रा. ५ बी तिथ्याव'. ६ ए थावहू. ७ ए सी °णादिना . ८ सी न्याख्ये ब. ९ सी °था प०. १० सी तिम'. ११ ए रुवपा, १२ ए बेन्मु. १३ बी तय. १४ बीटा आयुः.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org