________________
३७८
घ्याश्रयमहाकाव्ये [कुमारपालः] स्वर्गादिः । स्वग्यः । काम्यैः । स्वस्तिवाचनादि । स्वस्तिवाचनैः । शान्तिवाचनैः । अत्र "स्वर्ग०" [१२३ ] इत्यादिना स्वर्गादिभ्यो यः स्वस्तिवाचनादिभ्य इकणो लुगू ॥
द्यौः सामयिकरागेण लतेवातवपल्लवैः । प्राशित्री तिमिरैः काल्यैरभवत्षट्पदैरिव ॥ ७४ ॥ ७४. समयः कालः प्राप्तोय सामा(म)यिको यो रागः संध्यारागस्तेनोपलक्षिता द्यौयोमाभूत् । कीदृशीव । *तुः प्राप्त एषामार्तवा ये पल्लवास्तै रुपलक्षिता लतेव । तथा काल्यैः प्राप्तकालैस्तिमिरैः कृत्वा द्यौः प्राशिता भक्षकः प्राप्तोस्याः प्राशिव्यभूत् । यथा काल्यैः कालप्राप्तैः षट्पदैर्भृङ्गः कृत्वा लता प्राशित्री भवति । यथा सौगन्ध्याकृष्टै ङ्गैलता व्याप्यते तथा तिमिरैः किंचिद्व्याप्ता द्यौरभूदित्यर्थः ॥
सामा(म)यिक । इत्यत्र "समयायाप्तः' [ १२४ ] इतीकण् ॥ आर्तव । प्राशित्री । इत्यत्र "ऋत्वादिभ्योण्" [ १२५ ] इत्यण् ॥ काल्यैः । अत्र “कालाद्यः” [ १२६] इति यः॥
विभ्रतः कालिकं वैरं दैत्यानाकालिकान्नते । विंशकैस्त्रिंशकैः पात्रैरकायार्घमदुन के ॥ ७५ ॥
१ ए सामायि'. २ ए काल्येर. ३ ए °व । दाम'. ५ सी °लिका. ६ बी नतो। वि.
४ बी कालकं.
१बी स्वादिः. २ ए बी स्तिवच०. ३ बी प् । द्यौ सा. सी प् । योः समायक. ४ सी °स्य समा. ५ सी को रा. ६ ए ऋतु प्रा. ७ ए वास्तेरु. ८ ए तेवा । त?. ९ए तोस्या प्रा. १० ए भृगैः कृ. सी भंगै कृ. ११ सी था सोग'. १२ सी लतां व्या. १३ ए चिद्याप्ता. १४ सीधः । समा'. १५ एभ्योत्य.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org