________________
[है. ६.४.१३०. सप्तदशः सर्गः ।
३७९ ७५. अर्कायार्घ पूजां के नादुनै ददुः। कैः कृत्वा। पात्रैः पुष्पफलजलादिवस्तुसंपूर्णैस्ताम्रभाजनैः । किंभूतैः । विंशकैस्त्रिंशकैर्विंशत्या त्रिंशता वा रूपकादिभिः क्रीतविंशतिं त्रिंशतं वार्हद्भिर्वा । कीदृशाय । दैत्यान्मन्देहाख्यान्दानवान्नते । किंभूतान् । कालिकं दीर्घकालं वैरं बिभ्रतस्तथाकालं समकालं वा भवन्त्याकालिकास्ताञ् जन्मानन्तरमेव रविणा विनाश्यमानत्वादाजन्मकालमेव भवतः । उदीयमान एव हि रविरमून्दैत्यान्हन्तीति स्वरूपविशेषणमेवेदं रवेः॥ कालिकं वैरैम् । अत्र “दीर्घः" [ १२७ ] इतीकण् ॥ आकालिकॉन् । इति "आकालिकम्०” [ १२८ ] इत्यादिना निपात्यम् ॥ त्रिंशकैः । विंशकैः । अत्र "त्रिंशद्' [ १२९ ] इत्यादिना डकः ॥
त्रिंशत्कं विंशतिकं वा बहुकं कतिकं न्विति । मुग्धाभिस्तर्कितं सांध्यभाकौसुम्भं प्रतीच्यधात् ।। ७६ ॥ ७६. सांध्यभैव संध्याराग एवं कौसुम्भं कुसुम्भेन रक्तं वस्त्रं प्रतीची पश्चिमाधात्परिदधौ । कीदृशम् । मुग्धाभिस्तर्कितमतिरमणीयतया संभावितम् । कथमित्याह । त्रिंशता विंशत्या बहुभिः कतिभिर्वा रूपकादिभिः क्रीतमेतदिति ॥
पाश्चाशत्कं साप्ततिकं पाष्टिकं शतिकं क्षणात् । शत्याधिकं च नेपथ्यं दधुर्वासकसजिकाः ॥ ७७ ॥
१ बी कौशुम्भं. २ ए तिकषा. ३ बी सी °त् । सत्या ४ ए °त्याविकं.
१ ए °याचं पू. २ बी दुनदुः. ३ सी °शकारू. ४ बी सी तैर्विश'. ५ ए शति वाहंद्भि. ६ ए° त्यानादेहा', ७ ए वान्न किं. बी वान्घृते. ८ सी था अका. ९ वी शेपेण'. १० सी र इति दी. ११ ए कामिति. सी कागिति अका. १२ बी ए कौशुम्भं कुशुम्भेन. १३ बी भिः कतिभिः क. १४ सी 'ति । पञ्चा.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org