SearchBrowseAboutContactDonate
Page Preview
Page 367
Loading...
Download File
Download File
Page Text
________________ । है० ६.४.२७.] सप्तदशः सर्गः । ३४३ भस्त्रिकात् । अंशभारिकात् । इत्यत्र “भस्वादेरिकद" [ २४ ] इतीकट् ॥ विवधिकी । वीवधिके । अत्र "विवध०" [२५] इत्यादिनेकड्वा॥ पक्षे । इकणे। वैवधि ॥ कौटिलिकीभूय । इत्यत्र “कुटिलिकाया अण्" [२६] इत्यण् ॥ आम्भसिकानौजसिको मरुदप्रातिलोमिकः । अमूः साहसिको भूत्वा समस्पाक्षीच्छ्रमश्लथाः ॥ १६ ॥ १६. मरुद्वातः श्रमश्लथाः पुष्पोच्चयोत्थखेदेन निःसहा अमूः कामिनीः समस्त्राक्षीत् । कीदृक् । अम्भसा वर्तत आम्भसिकः सजलकणः से चासौ न ओजसा बलेन वर्ततेनौजसिकश्च मृदुः स तथा । तथा न प्रतिलोमं वर्ततेप्रातिलोमिकः पृष्ठवाहित्वेनानुकूलः । किं कृत्वास्पृशत् । सहसा वर्तते साहसिकः परदारस्पर्शोत्थस्यायतौ विनिपातस्यानालोचकत्वादविमृश्यकारी पारदारिक इव भूत्वा । साहसिक एव हि स्मरोद्रेकोत्थस्वेदेनाम्भसिकोनौजसिकोप्रातिलोमिकश्च सन् परनारीः स्पृशति ॥ गोत्रं पुष्पार्पणे प्रातिकूलिक्या गृह्णतापरा । प्रातीपिक्यानुकूलिक्याज्ञायि प्रौढा प्रियेण न ॥१७॥ १७. प्रियेणापरा कामिनी प्रतीपं वर्तते प्रातीपिकी प्रतिकूलानुकूलं वर्तत आनुकूलिक्यनुकूला वा नाज्ञायि । कीदृशा । पुष्पार्पणे प्रातिकूलिक्याः प्रतिकूलं वर्तमानायाः सपत्न्या गोत्रं नाम गृह्णतोचारयता १ ए बी कूलक्या. १बी विविधि'. २ बी विविध . ३ सी ण् । कौटलि'. ४ एक । कैटि'. ५ बी स वाष्णो न. ६ सी था न. ७ ए सिकानौ . ८ ए ° पर्वते. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003629
Book TitleDvyasrayakavya Part 02
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1921
Total Pages628
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy