________________
३४४
घ्याश्रयमहाकाव्ये [कुमारपालः ] गोत्रस्खलितापराधं कुर्वतापीत्यर्थः । यतः कीदृक् । प्रौढा । प्रौढा हि गम्भीराशयत्वेन गूढाकारेङ्गिता स्यात् । यदुक्तम् । लेब्धायतिः प्रगल्भा रतिकर्मणि पण्डिता विभुर्दक्षा
आक्रान्तनायकमना नियूंढविलासविस्तारा ॥ सुरते निराकुलासौ द्रवतामिव याति नायकस्याङ्गे न च तत्र विवेक्तुमलं कोयं काहं किमेतदिति ॥
कुपितापराधिनि संवृत्याकारमधिकमाद्रियते ।
कोपमप[त्यास्ते धीरी हि रहस्युदासीना ।। इति ॥ .
अपारिमुखिकी पारिपार्श्विकैन्यानुलोमिके । पत्यौ हासादनान्वीपिक्यक्षिपत्पौष्पिकी स्रजम् ॥ १८ ॥
१८. अन्या पत्यौ हासान्नर्मणा स्रजमक्षिपत् कण्ठे चिक्षेप । कीहक्सती । अनान्वीपिकी न प्रतिकूलं वर्तमानानुरक्तेत्यर्थः । अत एवापारिमुखिकी। परिर्वजनेत्र । न मुखं वर्जयित्वा वर्तमाना संमुखीनेत्यर्थः । तथा पुष्पाण्युञ्छति पौष्पिकी पुष्पाण्युञ्चिन्वती । पत्यौ च किंभूते । आनुलोमिकेनुकूलं वर्तमानेनुरक्त इत्यर्थः । अत एव पारिपाविके । परिः सर्वतोभावेत्र । यतो यतः प्रियासमीपं ततस्ततो वर्तमाने सदा पार्श्वस्थे ।
१ सी °ढा हि गभीराश्रय”. २ ए लब्धय'. ३ बी यतिप्र. ४ ए °ममा नि. ५ सी तेन नि . ६ ए नायिक. ७ सी स्यान्ते । न. ८ सी "राधनि. ९ सी रापि र. १० ए त् कं चि. ११ ए सी एव पा. १२ बी वापरि . १३ बी सी रिवर्ज°. १४ बी ने च न.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org