________________
३४२
याश्रयमहाकाव्ये
[कुमारपालः]
श्रान्तसख्या वाहिकादानान्मार्गदायिनी स्वयं भूत्वा । तथा भस्त्रिकाद्भस्त्रया दृतिना जलं हरतो भृत्यादेरम्बु गृहीत्वा । किंभूतात् । अंशो भागभूतो भारो जलभारोंशभारस्तेन हरत्यंशभारिकस्तस्माद्वितीयेन सहाम्बुभारं वहत इत्यर्थः ॥
क्काप्यवीवधिके कुज्जे नीत्वा वैवधिकच्छलात् । कांचित्कौटिलिकीभूय प्रियो भ्रमयति प्रियाम् ॥ १५ ॥ १५. कांचित्प्रियां प्रियो भ्रमयति नर्मणेतस्ततो नयति तत्कालापेक्षया धर्तमाना। किंकृत्वा । वैवधिकच्छलान्मार्गेण नेतुश्छलादहमत्र मार्गेण नेतास्मीति व्याजादित्यर्थः । क्वापि कुजे वनगहने नीत्वा। किंभूते। अत्यन्तं वृक्षादिभिर्गुप्तिलत्वान्नास्ति वीवधिको मार्गेण नेता यत्र तस्मिन् खिल इत्यर्थः । तथा कौटिलिकीभूय कुटिलिकाशब्देनाग्रे व लोहादिमय्यङ्गाराकर्षणी यष्टिर्वा कुटिला गतिर्वा पलालोत्क्षेपणो वक्रो दण्डो वा परिव्राजकोपकरणभेदो वा चौराणां नौगृहाद्यारोहणार्थ दामाग्रप्रतिबद्ध आयसोर्धाङ्कशो वोच्यते । यथा कर्मारकर्षकपरिव्राजकचौरा अङ्गारपलालपुष्पनावः कुटिलिकया हरन्त्येवं वैवधिकच्छलेन प्रियाया आकर्षकीभूयेत्यर्थः । यद्वा कुटिलिकया कुटिलगत्या हॉरकीभूय ॥
१ ए चित्कोटिकी. २ बी सी कौटलि'.
१सी ख्या बाहि. २ ए वाहनादा. ३ बी सी नायि”. ४ बी तो तृत्त्वादे. सी तो दे'. ५ ए बी तुच्छला. ६ ए °ण नोता. बीण नैता. ७ बी जे ग. ८ बी सी गुपिल'. ९ एस्मिन्नखि. सी स्मिनखि. १० सी कौटलि'. ११ ए °टिकी . १२ सी टिलका. १३ बी वका लो'. १४ ए
का लेहा. १५ बी कर्षिकी. १६ ए त्यर्थे । य. १७ बी टिलाग'. १८ ए सी हारिकी.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org