SearchBrowseAboutContactDonate
Page Preview
Page 352
Loading...
Download File
Download File
Page Text
________________ ३२८ व्याश्रयमहाकाव्ये [कुमारपालः] कृतः सार्वचर्माणो न तथासार्वचर्मीणस्तं वस्त्रादिकृतं कोत्थलिकादिमसारत्वेन पाटनभयादुज्झन्ती सती सर्वचर्मीणे दाव(ब?)डीति प्रसिद्धायां चर्ममय्यामाभरणकरण्डिकायां लक्ष्मीमलंकारादिऋद्धिं क्षिपति । युक्तं चैतत् । यतः सर्वोपि कश्चिदम्बु कौलालके कुलालेन कृते घटघटीशरावादिभाण्डे क्षिपेन्न तु कश्चिद्वारुटके वरुटेन कृते सूर्पपिटकपटलिकादौ भाण्डे ॥ कौलालके । वारुटके । अन्न "कुलालादेरक" [ १९४ ] इत्यकञ् ॥ सर्वचर्माणे । असार्वचर्माणम् । अत्र “सर्व०" [ १९५] इत्यादिनेन ईनञ् च ॥ अथ हेमन्तशिशिरौ ॥ येनौरसोरस्यविरिञ्चिपुत्राः सौभद्रविज्योतिषवेदिनश्च । तैरप्यतयंप्रभवो हिमतुश्छन्दस्यवद्वारि हिमं चकार ॥ ९४ ॥ ९४. हिमतुः शीतकालो हेमन्तः शिशिरश्च वारि हिमं शीतलं चकार। कीदृक् । अतयंप्रेभवोकस्मादाविर्भवनेनाज्ञेयोत्पतिकः । कैः। तैरपि य उरसा कृता औरसा न तथानौरसा मानसाः सनकाद्यास्तथोरस्या उरसा कृताः स्वाङ्गोद्भवाः काश्यपाद्या द्वन्द्वेनौरसौ(सो)रस्या ये विरिञ्चिपुत्रा विधिपुत्रा मुनयोभूवंस्तथा ये सौभद्रविज्योतिषवेदिनश्च सुभद्रामर्जुनपत्नीमधिकृत्य कृतं ग्रन्थं ये विदन्ति ये च ज्योतीष्यधिकृत्य कृतं ग्रन्थं विदन्ति ये महाज्ञानपात्राणीत्यर्थः । छन्दस्यवत् । १ ए बी विरनिं. २ बी तुच्छन्द'. १ सी °तः सर्व'. २ सी त्थलकादिकम'. ३ बी णे डाव. ४ ए ते स्वर्प. ५ सी प्रभावो. ६ सी त्तिकालः । कैः. ७ ए बी वाः कश्य'. ८ ए °पाद. ९ एभूवस्त° सी भूवन्ये तथा. १० सीन्थं वा ये. ११ सी ये म. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003629
Book TitleDvyasrayakavya Part 02
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1921
Total Pages628
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy