SearchBrowseAboutContactDonate
Page Preview
Page 353
Loading...
Download File
Download File
Page Text
________________ ३२९ [ है० ६.३.२०७.] षोडशः सर्गः। ओश्रावयेति चतुरक्षरम् । अस्तु औषडिति चतुरक्षरम् । ये यजामह इति पञ्चाक्षरम् । यजेति व्यक्षरम् । ब्यक्षरो वषट्कारः । एष वै सप्तदशाक्षरेश्छन्दस्यो यज्ञमनुविहितः। अत्र स्वार्थे यः । यथानुष्टुवादिरक्षरसमूहस्तथैषां सप्तदशानामक्षराणां समूहश्छन्दस्य उच्यते । स यथापौरुषेयत्वान्महाज्ञानिभिरप्यतय॑प्रभवः स्यात् । यद्वा यथा छन्दसेच्छया स्वाभिप्रायेण कृतश्छन्दस्यश्छन्दोनुवर्ती दासः शीतोपचारैर्वारि शीतलं करोति तथा हिमर्तुश्चकार ॥ उरस्य । अनौरस । इत्यत्र “उरसो याणौ” [ १९६ ] इति याणौ ॥ छन्दस्य । इति “छन्दस्यः" [ १९७ ] इत्यनेन निपात्यते ॥ सौभद्र । इत्यत्र “अमोधि०" [ १९८ ] इत्यादिनाण् ॥ ज्योतिष । इति "ज्योतिषम्" [ १९९] इत्यनेन निपात्यम् ॥ शैशुक्रन्दं यद्वदीयुः शिशुक्रन्दीयाभिज्ञाः षट्पदाः कुन्दयष्टिम् । उद्गायन्तः किं किरातार्जुनीयं किं वा सीतान्वेषणीयं प्रहृष्टाः ९५ ९५. षट्पदाः कुन्दयष्टिं कुन्दपुष्पलतामीयुः श्रिताः । यद्वद्यथा शैशुक्रन्दं शिशुक्रन्दं प्रस्तुत्य कृतं ग्रन्थं बालपुस्तिकाशास्त्रं शिशुक्रन्दीयाभिज्ञा बालपुस्तिकाशास्त्रस्य ज्ञातारः श्रयन्ते । किंभूताः षट्पदाः । प्रहृष्टाः कुन्दसौरभोत्कर्षाघ्राणेन प्रमुदिता अत एवोद्गायन्त उच्चैःस्वरेण १ बीद्वदायुः. २ बी ष्टि । उ°. ३ बी किं करा . ४ बी सी वा शीता. ५ ए °षणी प्र. १ बी °स्तु स्रोष'. सी °स्तु सौष . २ बी 'रच्छन्द'. ३ बी सी हच्छदन्द. ४ ए यंभ. ५ सी प्रभावः. ६ सी न्दस्वेच्छौं. ७ ए बी तच्छन्द. ८ बी सी स्वच्छन्दो'. ९ सी न्दस्येत्य. १० ए °ति समित्य. ११ बी यति । किं. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003629
Book TitleDvyasrayakavya Part 02
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1921
Total Pages628
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy