SearchBrowseAboutContactDonate
Page Preview
Page 351
Loading...
Download File
Download File
Page Text
________________ [ है. ६.३.१९४.] षोडशः सर्गः। ३२७ अभूष्यताब्जर्जलमत्र वाररुचैः सुवाक्यैरिव पाणिनीयम् । सन्माक्षिकं नु प्रियसारघाणां पेयं नृणां मानसवारितुल्यम् ॥१२॥ ९२. अत्र शरदि जलमब्जैरभूष्यत । कीदृक् । मनसा कृतं मानसं सरस्तस्य यद्वारि तत्तुल्यमगस्त्युदयेनातिनिर्मलमित्यर्थः । अत एव नृणां कर्तरि षष्टी । नरैः पेयं यथा प्रियं सरघाभिर्मधुमक्षिकाभिः कृतं सारघं मधु येषां तेषां सच्छोभनं माक्षिकं मक्षिकाभिः कृतं मधु पेयं स्यात् । यथा मानसवारितुल्यमपशब्दमलरहितत्वेन विशुद्धमत एव नृणां पेयं श्रोतव्यं पाणिनीयं पाणिनेन पाणिनिनावोपज्ञातं व्याकरणं वाररुचैर्वररुचिना कृतैः सुवाक्यैः कर्तृभिरभूष्यत ॥ पाणिनीयम् । अत्र "उपज्ञाते" [ १९१ ] इति यथाविहितं दोरीयः ॥ वाररुचैः । मानस । इत्यत्र "कृते" [१९२] इत्यण् ॥ कृते ग्रन्थ एवेच्छन्त्यन्ये । तन्मते तु कृतेर्थे मानसेति न स्यात् ॥ माक्षिकम् । सारघाणाम् । अत्र "नाम्नि० " [ १९३ ] इत्यादिनाण् ॥ असार्वचर्माणमिवान्यदुज्झन्ती सर्वचर्मीण इवाजकोशे । चिक्षेप लक्ष्मी शरदम्बु कौलालके क्षिपेद्वारुटके न कश्चित् ॥९३॥ ९३. शरदन्यदढ्जकोशादितरत्पुष्पमुज्झन्ती सती लक्ष्मी सौरभविकाशादिशोभामब्जकोशे पद्मकुमले चिक्षेप । अन्योपि हि लक्ष्मी कोशे भाण्डागारे क्षिपति । शरदि ह्यब्जकोशेन्यपुष्पेभ्यः सर्वेभ्योप्यतिशयिता श्रीः स्यात् । यथा काचिन्नायिकासार्वचर्मीणं सर्वश्चर्मणा १ ए दुह्यन्ती. ९ए °क्ष्मी सर. ३ ए के पे. १ ए 'त्र सर. २ ए तं सरघं ये'. ३ ए पेयश्रो. ४ ए °णिने. ५ सी यः । वेर'. ६ बी सी ते कृ. ७ ए धाणम्. ८ ए भवका . ९ बी ममुकुले. १० सी यि श्रीः. ११ सी कापि नायि. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003629
Book TitleDvyasrayakavya Part 02
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1921
Total Pages628
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy