________________
षोडशः सर्गः।
२६९ ग्रैवेयकी प्रास्थित दीप्रकौक्षेयकः स गर्वादतिदाक्षिणात्यः । पौरस्त्यपाश्चात्यचमूनियुक्तवाहायनौयनसैन्यपालः ॥१०॥
१०. स आन्नः प्रास्थित प्रस्थानं चक्रे । कीहक्सन् । अवेयकी मङ्गल्याय ग्रीवालङ्कारवानुपलक्षणत्वात्परिहितसर्वालंकारस्तथा दीप्र उत्ते. जितः कौक्षेयकः कङ्ककुक्षिनिर्जीणेनायसा कृतोसियस्य स गृहीतासिरित्यर्थः । तथा गर्वादतिदाक्षिणात्यो दाक्षिणात्यं दक्षिणस्यां दिशि भवं रावणमतिक्रान्तस्तथा पौरस्त्यावेतनी पाश्चात्या च पश्चाद्भागभवा ये चम्वौ तयोश्छलकप्रतिद्विपदादिकृतोपद्रवाभावाय नियुक्तौ वाहायनो वह्निषु देशे भवो राजौर्दायनश्चोरों क्रीडायां कुशल उ(ऊ?)र्दिदेशे भवो वा राजा सैन्यपालौ येन स तथा ॥ स कापिशायन्यरुणेक्षणः सपायनः पश्चिमभूमिमिच्छन् । गर्जन्ययौ गौरिव रावो राङ्कवायणीं गां दुरमात्यवर्गः ॥११॥ ११ से आन्नो ययौ पश्चिमभूमि प्रत्यचालीत् । कीहक्सन । सपायनः । पर्दिदेशभवेन राज्ञा सहितस्तथा कुमन्त्रकृत्त्वाइष्टोमात्यवर्गो यस्य स तथात एव पश्चिमभूमि गूर्जरत्रामिच्छन्नत एव च कापिश्यां नगर्या नद्यां वा भवा कापिशायनी द्राक्षा तद्वगुर्जरत्राधिपोपरि कोपाटोपेनारुणे ईक्षणे यस्य स तथा गर्जन सिंहनादं मुञ्चन् । यथा राङ्कयो रङ्कदेशे भवो गौवृषभो गर्जन वाकुर्वन्सन्राङ्कवायणीं गां धेनुं कामातुरतया याति ॥ १ बी नौदाय . २ बी राष्ट्रकवा .
१ सी निजीणेंना . २ बी वादिति . ३ बी सी त्यो द. ४ बी रस्त्योग्रे०.५ बी 'त्या चा प. ६ सी लकः प्र. ७ बी °नश्चा". ८ ए श्चोदौ की. ९ ए सी पालो ये. १० बी स अन्नो. ११ बी देशे भ. १२ ए बी शायिनी. १३ सी भवा गौ. १४ सी जन्सन्राकवा. १५ बीन् त्राट्कुन्स'.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org