SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ ट्याश्रयमहाकाव्ये [कुमारपालः] यः शरावत्याः सरितः पूर्वोत्तरेण वहन्त्याः पूर्वतो दक्षिणतो वा भवति यस्तु पश्चिर्मत उत्तरतो वा स उदगिति । ततश्च तत्तद्देशाधिपानां बल्लालादीनां प्राच्यत्वाद्युक्तिरुपपन्नेति ॥ औत्तराह । इत्यत्र "उत्तरादाह" [५] इत्याहञ् ॥ पारावारीण । इत्यत्र “पार०" [६] इत्यादिनेनः ॥ पारीण । अवारीण । अवारपारीण । इत्यत्र "व्यस्त०" [७] इत्यादिनेनः ॥ दिव्य । प्राच्यम् । अपाच्यैः । उदीच्य । प्रतीच्य । इत्यत्र "थुप्राग्०" [-] इत्यादिना यः॥ ग्रामेयकाग्राम्यवचःप्रवीणैः कात्रेयकैराहत राजचक्रम् । ग्रामीणकौलेयकवत्सकौण्डेयकं सकौणेयकमेष दूतैः ॥९॥ ९. ग्रामीणो ग्रामे भवो यः कुले शुद्धान्वये भवो जातो वा कौलयको जात्यश्वा प्रचण्डबलशौर्यादिगुणैस्तत्तुल्य एष आन्नो दूतैर्नृपचक्रमाताकारयत् । किंभूतम् । सकौण्डेयकं सकौणेयकं च कुण्ड्या कुण्या च नगयौं ग्रामौ वा । कुण्ड्यान्ध्रदेशे नदीत्येके । तत्र भवैर्जातैर्वा नृपैः सहितम् । किंभूतैर्दूतैः । कात्रेयकैः कुत्सितास्त्रयो धर्मादयो यत्र तंत्र कत्रौ देशे भवैर्जातैर्वा । तथा ग्रामेयकमसभ्यमग्राम्यं च सभ्यं च यद्वचो यद्वा ग्रामेयकाणां मूर्खाणामग्राम्याणां च विदुषां च यद्वचस्तत्र प्रवीणैः सर्वभाषानिपुणैरित्यर्थः ॥ १ बी कौलीय. १ सी ति पौं. २ ए मतो उ°. ३ सी तद्दे'. ४ सी ण । ई'. ५ ए दिव्यः । प्रा. ६ सी ले सिद्धा. ७ ए भवे जाते वा. बी भवे जातौ वा. ८ बीकं सकौण्डेयकं स. ९ ए ण्ड्या च. १० सी भूतैः का. ११ सीत्र कात्रे दे'. १२ ए "सत्यम. १३ ए सत्यं च. १४ बी सी भ्यं य. १५ बी सी घां य. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003629
Book TitleDvyasrayakavya Part 02
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1921
Total Pages628
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy