SearchBrowseAboutContactDonate
Page Preview
Page 291
Loading...
Download File
Download File
Page Text
________________ [ है० ६.३.५. ] षोडशः सर्गः । २६७ हारानदीसंबन्धिनस्ते तथावारीणा अवारे प्रस्तावाच्छिवहारानद्या अर्वादे भवास्तथा पारीणाः पारे शिवहारायाः परतटे भवा विशेषणद्वन्द्वे एते ये नृपास्तैः । यतो मदतो बलाद्यवलेपादतिपारावारीणनागः पारावारे भवं जातं वा नागमैरावणमतिक्रान्तः ॥ प्राच्यं च व (ब)लालमयुक्त पारातोवारपारीणनृपैरपाच्यैः । प्रतीच्यराट्पाणिनिपीडनार्थमुदीच्यरांण्नीत्यतिदिव्यमन्त्री ॥ ८ ॥ ४ ८. उदीच्यराडुदीच्यानामुत्तर दिग्भवानां सपादलक्षादिदेशनृणां राजान्नः प्रतीच्यानां गूर्जरत्रादिपश्चिमदेशभवानां नृणां रौद्र कुमारपाल - स्तस्य यः पाणिः पश्चाद्भागदेशस्तस्य निपीडनार्थमुपद्रवणार्थं प्राच्यमवन्तिदेशाधिपं बल्लेालं बल्लालदेवाख्यं नृपं पारातोवन्तिदेशस्थपारानद्याः सकाशादयुङ्क च । कैः सह । अपाच्यैर्दाक्षिणात्यैरवारपारीणनृपैरवारपारेधौ भवैर्नृपैः । यदा कुमारपालो मया सह युध्यते तदा युष्माभिरेतस्य पञ्चादेशो भवनीय इत्येवं मैत्रीदानसन्मानादिकरणेन प्रेरितवानित्यर्थः । यतो नीत्यतिदिव्यमन्त्री नीतौ राजनीतिविषये दिव्यमन्त्रिणं बृहस्पतिमप्यतिक्रान्तः । गूर्जरत्रापेक्षया सपादलक्षदेश उत्तरः । सपादलक्षापेक्षयां च गूर्जरत्रा पश्चिमा। गूर्जरत्रास पादलक्षापेक्षया चावन्तयः पूर्वा इत्यन्योन्यापेक्षयावन्त्यादिदेशानां प्राग्देशत्वादिव्यवहारः । यद्वेशानतो नैऋ (ऋ) तिं गच्छन्त्याः शरावतीनद्या अपेक्षयावन्त्यादिदेशानां प्राग्देशत्वादिव्यवहारः । तथा च वैयाकरणाः । कः पुनः प्राग्देशो 99 3 १ बी 'राणी'. १ सी लेपतोति. २ सी 'ददे'. ३ ए खादि. ४ सी 'देशानां भ.. ५ ए ● भवा नृ. ६ बी नृपाणां. ७ सी राजा कु. ८ए चारादे ९ए 'लाला'. १० बी सी 'वैर्भूपैः ११ सी 'तिविदि. १२ सी या चा १३ बी 'त्रास'. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003629
Book TitleDvyasrayakavya Part 02
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1921
Total Pages628
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy