SearchBrowseAboutContactDonate
Page Preview
Page 290
Loading...
Download File
Download File
Page Text
________________ व्याभय महाकाव्ये [ कुमारपाल: ] नादेयपूराभवलः स कृत्यशेषेपि नाशेत यतस्ततोमुम् | माहेयरड्राष्ट्रियराजमुख्या भूपा अदूरेत्यभुवोभजन्त ॥ ६ ॥ २६६ ६. यतो यस्माद्धेतोः स राजा कृत्यशेषेपि स्तोकेपि कार्ये नाशेत नालस्यभूत् । कीदृक्सन् । नादेयपूराभवलो नदीभवप्रवाहतुल्यबलः । तस्मान्महोत्साहरूपाद्धेतोर्मयां भवा माहेया महियडा इति प्रसिद्धाः क्षत्रियभेदास्तेषां राङ्गोद्रह देशाधिपस्तथा राष्ट्रे भवा राष्ट्रियाः क्षत्रियभेदास्तेषां राजा राष्ट्रियराजो द्वन्द्वे तदादयो भूपा अमुमभजन्त । किंभूताः सन्तः । अदूरेत्याः समीपभवा भुवो येषां ते तथा निकटस्था इत्यर्थः ॥ शेषे । इत्यनेन " शेषे " [ १ ] इति सूत्रं सूचितम् ॥ नादेय । माहेय । इत्यत्र " नद्यादेरेयण” [ २ ] इत्येयण् ॥ राष्ट्रिय । इत्यत्र "राष्ट्रादियः " [ ३ ] इतीयः ॥ दूरेत्य । इत्यत्र “ दूरादेत्यः " [ ४ ] इत्येत्यः ॥ 7 अथो (थ) तराहा खिलशैवहारावारीणपारीणनृपैः सहैव । आनो नृपोस्मिन्मदतोतिपारावारीणनागः सहसा व्यरुद्ध ॥७॥ ७. अथान्नो नृपः सपादलक्षदेशाधिपोस्मिन्कुमारेपालविषये सहसातर्कितमेव व्यरुद्ध । जयसिंहे स्वर्गते नवराजत्वेन कुमारपाल - समर्थं मन्यमानो विरोधकारणाभावेप्यतर्कितं तेन सह विरोधं चकारेत्यर्थः । कीदृक्सन् । सहैव सहित एव । कैरित्याह । औत्तराहा उत्तरस्यां दिश्युत्तरस्मिन्देशे वा भवास्तथाखिला ये शैवहाराः शिव १ बी व । अन्नो. १ ए रानोद्र. २ सी 'रवि'. ३ बी 'सिंह'. "त्याहोत्त'. ६ सी 'था पारीणाः . Jain Education International For Private & Personal Use Only ४ ए विधं. ५ ए www.jainelibrary.org
SR No.003629
Book TitleDvyasrayakavya Part 02
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1921
Total Pages628
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy