SearchBrowseAboutContactDonate
Page Preview
Page 294
Loading...
Download File
Download File
Page Text
________________ २७० व्याश्रयमहाकाव्ये [कुमारपालः] कत्यस्ततस्त्यो न्यसि नासि तत्रत्यः किं त्वहं नित्यमिहत्य एवम् । तदीयनिष्ट्यानभिवश्य कश्चिदाविष्ट्य आगात्प्रणिधिश्चलुक्यम्॥१२॥ १२. कश्चित्प्रणिधिश्चर आविः प्राकाश्ये भव आविष्टयः प्रकटः संश्थुलुक्यमागात् । किं कृत्वा । तदीयनिष्टयानान्नसंबन्धिनश्चण्डालानभिवञ्चयच्छलयित्वा । कथमित्याह । अहो नरासि त्वं कत्यः कस्मिन्देशे पुरे वा भवो नु । शङ्कामहे । ततस्त्योसि तस्मात्पश्चिमदेशादागतस्त्वं कुमारपालचरस्त्वमित्यर्थः । इत्युक्ते प्रत्युक्तिर्यथा । नास्मि तत्रत्यो नाहं तस्मिन्पश्चिमदेशे भवः किं त्वहं नित्यमिहत्योस्मिन्सपादलक्षदेशे भव एवंप्रकारेण ॥ ग्रामीण । ग्राम्य । इत्यत्र "ग्रामादीनञ्च" [ ९ ] इतीनज् यश्च ॥ कात्रेयकैः । ग्रामेयक । इत्यत्र “कत्रि० [१०] इत्यादिनैयकञ् ॥ कौण्डेयकम् । कोणेयकम् । अत्र "कुण्ड्या०" [११] इत्यादिना-एयकज् यल्लुक्क ॥ कौलेयक । कौक्षेयकः । ग्रैवेयकी । इत्यत्र "कुल." [ १२ ] इत्यादिनाएयकञ् ॥ दाक्षिणात्यः । पाश्चात्य । पौरस्त(स्त्य)। इत्यत्र “दक्षिणा." [१३] इत्यादिना त्यण् ॥ वाह्नायनौयन । पार्दायनः । कापिशीयनी । इत्यत्र “वह्निः" [१४] इत्यादिना टायनण् ॥ १ बी त्प्रणधि'. १बी विः प्रका'. २ बी 'नश्चाण्डा'. ३ ए सी हो निरा'. ४ ए सी नन् य. ५ ए सी क । कौ. ६ पुस्तकत्रयेपि 'कुण्डेत्यादिना' इति वर्तते. ७ बी सी यकः । कौ. ८ सी । राङ्क. ९ बी यनैर्दा. १० बी यनः । का. ११ ए य । का. १२ एशायिनी. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003629
Book TitleDvyasrayakavya Part 02
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1921
Total Pages628
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy