SearchBrowseAboutContactDonate
Page Preview
Page 280
Loading...
Download File
Download File
Page Text
________________ २५६ घ्याश्रयमहाकाव्ये [जयसिंहः ] पादां मिथोंहिसंघट्टैः स्मरन्ति सहढौकिनः । तासु छान्दसनैमित्तमौहूर्ता भोज्यलिप्सवः ॥ ११६ ॥ ११६. छान्दसनैमित्तमौहूर्ताश्छन्दो वेदं निमित्तं शकुनशास्त्रादि मुहूर्त मुहूर्तवाचकज्योतिःशास्त्रं च विदन्तोधीयाना वा द्विजास्तासु सत्रशालासु मिथोंहिसंघट्टैाढसंमर्दैन पादश्लेषैः कृत्वा पादां पादप्रहरणां क्रीडां स्मरन्ति । यतः सहढौकिनोहमहमिकया युगपदागच्छन्तः । एतदपि कुत इत्याह । यतो भोज्यलिप्सवः॥ चक्रे नैमित्तिको मौहूर्तिको नैयायिकश्च सः। शंभोः सहस्रमष्टौ चायतनानि सरस्तटे ॥ ११७ ॥ ११७. स्पष्टः । किं तु नैमित्तिको मौहूर्तिको नैयायिक इति विशेपणैः शुभे निमित्ते शुभे मुहूर्त आयतनकरणव्ययितप्रभूतद्रव्योत्पादनाय लोकानां गाढदण्डपातनरूपस्यान्यायस्याकरणे चैषामायतनानां करणमुक्तमेवं चैषामतिस्थिरता सूचिता ।। पौराणिकानुपदिकोत्रानुला(ल)क्षणिकोकृत । स देवीनां शतं साग्रं प्रासादान्मातृकल्पिकः ॥११८ ॥ ११८. स राजात्र सरस्तटे देवीनां चण्डिकादीनां सायं शतमष्टोत्तरं शतं प्रासादानकृताकारयत् । कीदृक् । पुराणं पञ्चलक्षणं पदान्यनुगतमनुपदं पदनिष्पादकं निरुक्तिशास्त्रमनुरूपं लक्षणेमनुलक्षणं शब्दानुशासनं मातृकल्पं मातृविधिप्रतिपादकं शास्त्रं च विदन्नधीयानो वा ॥ - १ बी सी मिथोहि. १बी मर्दन. सी मर्दनेन. २ सी पातानुरू'. ३ बी सी मेव चैषामिति'. ४ सी कानां. ५ ए °णश. ६ बी सी वा । अग्नि. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003629
Book TitleDvyasrayakavya Part 02
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1921
Total Pages628
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy