________________
२५४
व्याश्रयमहाकाव्ये
[ जयसिंहः ]
वायव्य । ऋतव्य । पित्र्य । उपस्य । इत्यत्र "वाय्वतु०" [ १०९] इत्यादिना यः ॥
म(मा)हाराजिकैः । प्रौष्टपदिक । इत्यत्र "महाराज.” [ ११० ] इ. त्यादिनेकण् ॥
सूक्तपातप्रगाथेभ्यः प्रावृषेण्यत्करोम्भसा । सोदाद्भारतनेतेव द्विजेभ्यस्तत्र दक्षिणाः ॥ ११३ ॥ ११३. तत्र यज्ञान्तस्नाने सति स राजा द्विजेभ्यो दक्षिणा अदात् । कीटक्सन् । अम्भसा कृत्वा प्रावृड्देवतास्य प्रावृषेण्यो वर्षामेघस्तद्वदाचरन्करः पाणिर्यस्य सः। कीदृग्भ्यो द्विजेभ्यः। सूक्तपातप्रगाथेभ्यः पतिर्दशाक्षरच्छन्दोजातिरादिरेषां पाता यत्र द्वे ऋचौ प्रपॅन्थनेन प्रकर्षगानेन वा तिस्रः क्रियन्ते ते मनविशेषाः प्रगाथाः सूक्ताः सुष्टु भणिताः पाङ्गाः प्रगाथा यैस्तेभ्यः । भारतनेतेव भरता भरतगोत्रोद्भवा योद्धारोस्य युद्धस्य भारतं युद्धं तस्य नेतेव युधिष्ठिर इव । पाण्डवा हि भरतगोत्रोद्भवाः । यथा युधिष्ठिरो यज्ञान्ते द्विजेभ्यो दक्षिणा ददौ ॥
अतीत्य मैथिलं युद्धं राघवो नु कृतक्रतुः। प्रापातेतरतिथ्यां स पूर्त चक्रे महासरः ॥११४ ॥ . ११४. स राजा सहस्रलिङ्गाख्यं महासरः पूर्त चक्रेकारयत् ।
वापीकूपतडागानि देवतायतनानि च । आरामान्नप्रदानानि पूर्तमाः प्रचक्षते ॥
१बी तुः । प्रपातेर?.
१ बी पितृव्य । उपस । ई. सी पित्र्यः । उ. २ बी सी वृत्या . ३ बी कैः । प्रोष्ठ. सी कैः । पोष्ठ'. ४ ए बी नाते स. ५ बी क्षरंच्छ. ६ सी ग्रन्थ्यने. ७ बी गादि दे'. ८ बी चक्ष्यते.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org