SearchBrowseAboutContactDonate
Page Preview
Page 277
Loading...
Download File
Download File
Page Text
________________ [ है० ६.२.१०९. ] पञ्चदशः सर्गः । २५३ ११०. शुनो वायुः सीर आदित्यस्तौ देवते एषां तानि शुनासीर्याणि सूक्तानि मन्त्रान् यथा शुनासीरीयो वाय्वादित्यदेवतपुरुषः शृणोत्येवं स राजाशृणोत् । वास्तोष्पतिर्वास्तुदेवता देवता येषां तानि वास्तोष्पतीयानि । शिष्टं स्पष्टम् ॥ 3 कर्माणि गृहमेध्यानि गृहमेधीयवन्मुदा । नृपो मरुत्वतीयानि मरुत्वत्य इवातनोत् ॥ १११ ॥ १११. गृहमेध्यानि गृहमेधं वास्तुदेवतामुद्दिश्योक्तानीत्यर्थः । मरुत्वानेकोनपञ्चाशन्मरुद्युक्तः शक्रो देवता येषां तानि मरुत्वतीयानि । शिष्टं स्पष्टम् ॥ द्यावापृथिवीयः । द्यावापृथिव्य । शुनासीरीय । शुनासीर्याणि । अग्नीषोमीयः । अग्नीषोम्ये । मरुत्वतीयानि । मरुत्वत्यः । वास्तोष्पतीयानि । वास्तोपत्यः । गृहमेधीय । गृहमेध्यानि । इत्यत्र " द्यावा. " [ १०८ ] इत्यादिना - ईययौ ॥ वायव्यर्तव्य पित्र्योपस्यमौष्ठपदिकादिभिः । २ १ तं माहाराजिकैश्वौक्षन्मत्रैरवभृथे द्विजाः ॥ ११२ ॥ ११२. अवभृथे यज्ञान्ते द्विजा यज्वानो मन्त्रैस्तमौक्षन्मन्त्रपूतं स्नानं तस्य चक्रुरित्यर्थः । किंभूतैः । वायव्या वायुदेवता ऋतव्या ऋतुदेवताः पितृव्याः पितृदेवता उषस्याः प्रातः संध्यादेवताः प्रौष्ठपदिकाः प्रोष्ठपदाः पूर्वभद्रपदा उत्तरभद्रपदा देवता येषां ते तथा विशेषणद्वन्द्वे तदादिभिस्तथा माहाराजिकैश्च महाराजदेवविशेषेदेवतैश्च ॥ १ बी सी कैोक्ष . २ सी त्रैरिवभृते द्वि'. ३ ए भृते द्वि. १ ए 'युः शीर. 'स्तुदैवतदेवता ये". ८ सीदा दे. Jain Education International २ बी सी 'नाशीर्या'. ३ बी सी 'तिवास्तु' ४ बी ५ सी 'ता ये. ६ बी 'नाशीर्या. ७ भृतेय. दै. For Private & Personal Use Only www.jainelibrary.org
SR No.003629
Book TitleDvyasrayakavya Part 02
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1921
Total Pages628
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy