________________
२२६
व्याश्रयमहाकाव्ये
आपूपिकर्नु माणव्यमानवं नु धेनुकैः । ब्राह्मण्यमिव निर्वापैर्हृष्टोस्मि त्वत्प्रसादतः ॥ ५२ ॥
५२. त्वत्प्रसादतः स्वर्णसिद्धिदानरूपात्त्वत्प्रसादादरम्यहं दृष्टः यथापूपिकैः पूपिक चैर्माणव्यं वटुकौघो हृष्यति यथा वा धैनुकैर्धेन्वोचैराधैनवं न धेनवो येषां तेघेनवस्तेषामोघो हृष्यति यथा वा निर्वापैः पितृतर्पणैर्ब्राह्मण्यं द्विजौघो हृष्यति ॥
आवाडव्यान्महीमागाणिक्याद्विद्ध्यर्नृणां कृताम् ।
न्यस्य यत्र त्विमां साधयामि स्वं देहि तं सुतम् ॥ ५३ ॥ ५३. स्पष्टः । किं त्वावाडव्याद्दिजौघादारभ्यागाणिक्यागणिकौघं च यावदुत्तमं जनमारभ्य हीनं च यावदित्यर्थः । स्वमात्मानम् ॥
कैदार्यम् । कैदारकम् । इत्यत्र " केदाराण्ण्यश्च " [ १३ ] इति ण्योकञ्च ॥ कावचिक । हास्तिकम् ॥ अचित्तात् । आपूषिकैः ॥ केदारात् । कैदारिकम् |
I
अत्र " कवचि ० " [ ४ ] इत्यादिनेकण् ॥
धेनुकैः । अत्र " धेनोरनजः " [१५] इतीकण् ॥ अनज इति किम् । आधैनवम् । उत्साद्यञ् । अनुशतिकादित्वादुभयपदवृद्धिः [ ७. ४. २७ ] ॥ ब्राह्मण्यम् | माणव्यम् । वाडग्यात् । इत्यत्र " ब्राह्मण०" [ १६ ] इत्यादिना यः ॥
गाणिक्याद् । इत्यत्र "गणिकाया ण्यः " [ १७ ] इति यः ॥
[ जयसिंहः ]
मूर्ध्नि कैश्यं स्पृश शंभुः पाणिना प्रत्युवाच तम् । भूभारं कैशिकमिवोत्तितारयिषुरागमः ॥ ५४ ॥
१ बी नृणी कृ. २ ए म् । नामा य
१ एपि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org