SearchBrowseAboutContactDonate
Page Preview
Page 251
Loading...
Download File
Download File
Page Text
________________ [ है ० ६.२.२१.] पञ्चदशः सर्गः । २२७ ५४. शंभुर्मूनि कैश्यं केशौघं पाणिना स्पृशन्नालादनायेच्छुपन्संस्तं नृपं प्रत्युवाच । हे राजंस्त्वं भूभारमुत्तितारयिषुः स्वपुत्रे न्यसनेन स्वत उत्तारयितुमिच्छुरागमः । कैशिकमिव यथा केशौघमुत्तितारयिषुस्त्वमागमः । सोमनाथयात्रायां हि यात्रिकैः केशा उत्तार्यन्ते ।। कैश्यम् । कैशिकम् । अत्र “केशाद्वा" [ १८ ] इति वा ण्यः ॥ त्वदात्रीयत्रिभुवनपालपुत्रोस्ति धूःक्षमः । कुमारपालः साश्वीयस्त्वदन्ते मां धरिष्यति ॥ ५५ ॥ ५५. स्पष्टः । किं तु धूःक्षमो भूमिप्राग्भारधरणक्षमः । साश्वीयोश्वौघेन सहितः॥ इत्युक्त्वान्तहिते शंभौ यावदाश्वैर्नृपोचलत् । वेत्यादिष्टो नमन्पार्श्वे तावदागाद्विभीषणः ॥ ५६ ॥ ५६. स्पष्टः । किं त्वाश्चैरेश्वौधैः वेच्यादिष्टः प्रतीहारेण कथितो नमन सन् विभीषणो रावणभ्राता पार्श्वे राज्ञः समीपे लङ्कात आगात् । विभीषणो हि लोकैरविनश्वर उच्यते ॥ साश्वीयः आश्वैः । अत्र “वाश्वादीयः" [ १९ ] इतीयो वा ॥ पार्श्व । अत्र “पर्वा वण्" [ २० ] इति व ॥ ऊचे सोहीनपृष्ठयेषु गोत्राप्रीणितकाठक । विद्धि द्विट्तूलवातूल भृत्यं मां पूर्वजन्मनः ॥ ५७ ॥ ५७. स विभीषण ऊचे । यथाहीनपृष्ठयेषु । अह्नां समूहा अहीनाः पृष्ठानां समूहाः पृष्ठयाः। द्वन्द्वे तेषु यागभेदेपु हे गोत्राप्रीणितकाठक गोसमू१ बी नपुष्पेषु. १ ए नालद. २ ए यन्नुप. ३ सी ताहिते । कै. ४ बी न्ते । केश्य. ५ ए रश्वोधैः. ६ बी यः अश्वैः. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003629
Book TitleDvyasrayakavya Part 02
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1921
Total Pages628
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy