________________
२२४
व्याश्रयमहाकाव्ये [ जयसिंहः ] श्रवणेन चन्द्रयुक्तेन युक्तां पूर्णिमामिव श्रावणपूर्णिमामिव दर्शयन् । तथाङ्गज्योत्स्नाभिरङ्गमेवातिश्वेतत्वाज्योत्स्नास्ताभिः कृत्वाश्वत्थामिवाश्वत्थेनाश्विनीभिश्चन्द्रयुक्तेन युक्तां पूर्णिमामिवाश्विनपूर्णिमामिवै च दशयन् ॥ श्रवणाम् । अश्वत्थाम् । अत्र “श्रवण०" [ ८ ] इत्यादिना-अः ॥ इत्यूचे तं हरः स्थित्यानया जयसि तापसम् ।
भैक्षभुग्यौवतानीहं जेतः क्षौद्रकमालवीम् ॥ ४८ ॥ ४८. हरस्तमित्यूचे । यथा क्षुद्रकाणां मालवानां च समूहः क्षुद्रकमालव्येवंनामा(नी?) काचित्सेना तां जेतर्जिष्णो हे जयसिंहानया स्थित्या योगिजनोचितावस्थानेन तास तापसौघं जयसि । किंभूतम् । भैक्षभुग्निःसङ्गत्वाद्भिक्षासमूहं भुञ्जानं तथा यौवतानीहं जितेन्द्रियत्वाद्युवतिसमूहानभिलाषि ॥
तापसम् । अत्र “षष्टयाः समूहे" [ ९ ] इत्यण ॥ भैक्ष । यौवत । इत्यत्र “भिक्षादेः" [ १० ] इत्यण् ॥ क्षौद्रकमालवीम् । इत्यत्र "क्षुद्रक०" [११] इत्यादिनाण् ॥
वात्सकैरौक्षकैः प्रागप्याजकौरभ्रकौष्ट्रकैः । श्रितो मानुष्यकैश्वासि वार्धकैश्चातिगार्गकैः ॥ ४९ ॥ भक्तै राजन्यकै राजपुत्रकैरतिराजकः ।
क्ष्मानृण्यायाधुना वर्णसिद्ध्या त्वं भव सिद्धिराट् ॥५०॥ १ बी भैक्ष्यभु. सी भैक्षाभु. २ सी श्वातिगा'. ३ ए कैरा. ४ बी सिद्धरा'.
१ सी श्वस्थामि . २ बी श्वत्थावि. सी वस्थेमोश्चि'. ३ बी व द. ४ सी पसौ. ५ बी भिलषि. ६ बी ण् । भिक्ष. ७ सी भैक्ष्य । यौ'.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org