________________
[ है. ६.२.८.] पञ्चदशः सर्गः ।
२२३ युक्तस्तथासावनन्तरागामिनी निशा पौषी पुष्येण चन्द्रयुक्तेन युक्ता तथाद्यास्मिन्यात्राहे पुष्योपि पुष्येण चन्द्रयुक्तेन युक्तः कालोपि । अयं संवत्सरोहोरात्रश्च सर्वकार्यसिद्धिकर इत्यर्थ इति ॥ . पौषोब्दः । अत्र "उदित०" [५] इत्यादिनाण ॥ पौषी निशा । इत्यत्र "चन्द्रयुक्तात्." [ ६ ] इत्यादिनाण् । लुस्वप्रयुक्ते पुष्योद्य ॥
निशां राधानुराधीयां ध्यानस्तिमितदृष्टिना ।
जपन्किमपि चौलुक्यो व्यडम्बयन्मुखेन्दुना ॥ ४६॥ ४६. चौलुक्यः किमप्यज्ञेयं रहस्यं जपन्ध्यायन्सन् निशां व्यडम्बयदन्वकरोत्। कीदृशीम् । राधानुराधीयां राधानुराधाभिर्विशाखानुराधाभिश्चन्द्रयुक्ताभिर्युक्ताम् । केन कृत्वा । ध्यानस्तिमितदृष्टिना समाधिनिश्चलाक्षेण मुखेन्दुना वश्रेष्ठेन । इन्दुशब्दोत्र व्याघ्रादिशब्दवत्प्रशंसावचनः । एतेन राज्ञि समाधेः प्रकर्ष उक्तः । चन्द्रोदयोज्ज्वलनिशातुल्यो राजा ।राधानुराधायुक्तचन्द्रतुल्यो राज्ञो ध्यानस्तिमितदृष्टिमुखेन्दुः। यदा हि विशाखानुराधयोश्चन्द्रः स्यात्तदा तयोर्मध्यस्थत्वाञ्चन्द्रस्यैवमुपमा ॥ राधानुराधीयां निशाम् । अत्र "द्वन्द्वादीयः” [७ ] इतीयः ॥
कण्ठप्रभानवाम्भोदैः श्रवणां दर्शयन्निव ।
अङ्गज्योत्स्नाभिरश्वत्थां चाविरासीदथेश्वरैः ॥४७॥ ४७. अथेश्वर आविरासीत्प्रत्यक्षोभूत् । कीहक्सन् । कण्ठप्रभानवाम्भोदैः कण्ठकान्तिभिरेव नीलत्वात्प्रावृषेण्यमेधैः कृत्वा श्रवणामिव १ बी सी क्यो वि. २ सी श्वस्थां चा'. ३ ए °रः । ईश्व.
१ बी न्तरगा . २ सी युक्तः का. ३ बी प्रत्युक्त. ४ ए युक्तेः पु. ५ सीमपि शे. ६ बी सी शां विड. ७ बी विशेषानु. ८ बी शापार्नु. ९एन्तिरे.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org