________________
[है० ६.२.१.] पञ्चदशः सर्गः।
२२१ तौल्वलिं तैल्वलिं तौल्वलायनं तैल्वलायनम् ।
महत्तरान्पुरस्कृत्य सौमेशं वेश्म सोविशत् ॥ ४१॥ ४१. स्पष्टः । किं तु महत्तरान्प्रधानानि ॥ पैलः । सपैलः । अत्र "द्विस्वरादणः'' [ ६. १. १०९ ] इत्यायनिमः शालङ्किः । सशालङ्किः। अत्र “यजिजः" [ ६. १. ५४ ] इत्यायनणश्च “पैलादेः” [ १४२ ] इति युवप्रत्ययस्य लुप् ॥
पानागारिः । संपान्नागारिः। अत्र “यजिनः [ ६. १. ५४ ] इत्यायनणः "प्राच्येनः०" [ १४३ ] इत्यादिना लुप् ॥ तौल्वल्यादिवर्जनं किम् । तौल्वलिं पितरम् । तौल्वलायनं पुत्रम् । तैल्वलिं पितरम् । तैल्वलायनं पुत्रम् ॥
___ एकविंशः पादः ॥ कौसुम्भं विद्रुमैः सोथ पद्मरागैश्च लाक्षिकम् । वैत्रै रौचनिकं कार्दमिकं मरकतोत्करैः ॥४२ ॥ कार्दमं च महानीलैर्मिः शाकलिकं च तैः। रुचोलो(ल्लो)चं नु तन्वानः स्नपयित्वेशमार्चिचत् ॥ ४३ ॥ ४२-४३. अथ जयसिंह ईशं सोमनाथं स्नपयित्वार्चिचत् । कैः । विद्रुमैः प्रवालैः । किंभूतैः । रुचा पीतकान्त्या कृत्वा कौसुम्भं कुसुम्भेन रक्तमुल्लोचं नु चन्द्रोदयमिव तन्वानैः कुर्वद्भिः। एवं सर्वत्र योजना कार्या । पद्मरागैर्लोहितकैर्मणिभिर्लाक्षिकं लाक्षया रक्तं वनघृतवणहीरकै रौचनिकं गोरोचनया रक्तं मरकतोत्करैः कृष्णवर्णैरइम
१बी सुभं वि. २ बी वज्रे रौं'.
१एनाने । पैलः । अं. २ सी पैल्यः । स. ३ ए ञः अत्राय'. ४ सी रिः । अ. ५ बी सपन्ना'. ६ ए जिन अत्रायः. ७ बी दः समाप्तः । कौ. ८ एकै रो,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org