SearchBrowseAboutContactDonate
Page Preview
Page 244
Loading...
Download File
Download File
Page Text
________________ २२० व्याश्रयमहाकाव्ये [ जयसिंहः ] आर्याग्रणीर्वासिष्ठश्च वासिष्ठेन सहोत्सुकः। अवासुदेवं तं वासुदेवं न्वाह्वातुमाययौ ॥ ३९ ॥ ३९. आर्याप्रणीरार्येष्वारिये(वार्ये?)त्याख्यया तत्र प्रसिद्धेष्वप्रणीः श्रेष्ठो वासिष्ठो वसिष्ठस्यापत्यं वृद्धमृषिर्वासिष्ठेन वासिष्ठस्यापत्येन यूना सह सपुत्र इत्यर्थस्तं नृपमाह्वातुं स्वमहासौधेवस्थानायामयितुमाययौ । कीटक्सन् । उत्सुकोन्येभ्यः पूर्वमाह्वातुमतित्वरावान् । किंभूतं तम् । वासुदेवं नु रूपवत्त्वपराक्रमित्वादिगुणैर्वसुदेवस्य वृद्धमपत्यमिव काममिवेत्यर्थः । किंभूतं वासुदेवम् । अवासुदेवं वासुदेवस्य कामस्यापत्यं युवा वासुदेवोनिरुद्धस्तेन रहितम् । एतेन राज्ञो निष्पुत्रत्वोक्तिः ॥ औदुम्बरिः औदुम्बरायणः । अत्र "दीजो वा” [ १३९] इति यून्यायनणो लुब्वा ॥ जितः । तैकायनिः । सहतैकायनिः । अत्रौत्सर्गिकाणः ॥ आर्षात् । वासिष्ठः । वासिष्ठेन । इत्यत्रात इजश्च "जिद्” [ १४० ] इत्यादिना युवप्रत्ययस्य लुप् ॥ वासुदेवम् । अवासुदेवम् । इत्यत्र “अब्राह्मणात्" [ १४१ ] इति युवप्रत्ययस्यात इजो लुप् ॥ पैलः सपैलः शालङ्किः सशालङ्किस्त्वरान्वितैः । पानागारिः संपानागारिरघु भूपतेर्ददौ ॥ ४० ॥ ४०. सपैलः पुत्रयुक्तः पैल आर्य एवमप्रेपि । अर्घ भूपतेर्ददौ । चन्दनपुष्पाक्षतजलाद्यर्घमघमुपलक्षणत्वात्पाद्याचमनीयमधुपर्काद्यपि राज्ञोदात् । गुरुनृपादयः षडा इति हि स्मृतिः ॥ शिष्टं स्पष्टम् ।। १ बी सी °णीश्च वासिष्टो वा. २ ए किस्वरा'. ३ बी कि रा. ३ बी सीतः । पन्ना. ४ बी सपन्ना. सी सपन्नगा. १ सी वशिष्ठ'. २ बी सी वाशिष्ठ'. ३ ए °वं स्वरू'. ५ सी आश्चर्य. ४ बी अत्रोत्स. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003629
Book TitleDvyasrayakavya Part 02
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1921
Total Pages628
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy