________________
[है० ६.१.९४.] पञ्चदशः सर्गः।
२०५ भगिनीनामपत्यैः सहितैस्तैः शत्रुभिः कृत्वा मार्गेभात् । कीदृक् । अतिमातृष्वसेयको मातुःष्वसुरपत्यं शिशुपालं करग्रहणेनातिक्रान्तो यो हरेर्विष्णोः पैतृष्वतीयः पितुःध्वसुरपत्यं भीमः स इव बलिष्ठत्वादिगुणैर्भीमतुल्यः । हरेः पिता वसुदेवस्तद्भगिन्या अपत्यं भीम इति हरेः पैतृष्वस्रीयो भीममातुश्च शिशुपालमाता भगिनीति भीमस्य शिशुपालो मातृष्वसेयः॥
मातृष्वसेय । मातृष्वस्त्रीय । पैतृष्वसेय । पैतृष्वतीयः । अन "मातृ." [ ९० ] इत्यादिना रे(डे)यणीयणौ ॥
श्वशु-भूय राजन्यैः स पथि क्षत्रियाग्रणीः ।
अमानुषो मनुष्येषु कैर्न भेजेतिमाणवैः ॥ ३ ॥ ३. अतिमाणवैः पुरुषेषु श्रेष्ठत्वान्माणवान्मनोरपत्यानि कुत्सितानि मूढान्यतिक्रान्तैः कै राजन्यै राज्ञामपत्यैः क्षत्रियजात्या स नृपः पथि न भेजे । किं कृत्वा । श्वशु भूय स्वभगिनीदानेन श्वशुरापत्यीभूयं श्यालीभूयेत्यर्थः । यतः कीदृक । क्षत्रियाणीः । एतेन सर्वगुणसंपद्राज्यसंपदोरतिशय उक्तः । तथा मनुष्येषु मनोरपत्येषु नरेषु मध्येमानुषोमो देवः । एतेन रूपातिशयोक्तिः ॥ श्वशुर्याभूय । इत्यत्र "श्वशुराद्यः' [ ९१] इति यः ॥ राजन्यैः । इत्यत्र “जातौ राज्ञः" [ ९२ ] इति यः ॥ क्षत्रिय । इत्यत्र “क्षत्रादियः" [९३ ] इतीयः ॥ मनुष्येषु । मानुषः । इत्यत्र “मनो०' [ ९४ ] इत्यादिनी याणौ षश्चान्तः॥
१बी ग्रहेणाति. २ ए "तु:स्वसु. ३ बी नीष्वनी . ४ ए सी सेय । मा. ५ ए ध्वस्त्रीयः । पैतृष्वस्रा'. ६ सी °सेयः । पै. ७ ए दिना केय'. बीदित्यारेय. ८ ए त्रिया जात्या: स. ९ सी य शाली. १० बी ग्रणी । ए. सी 'ग्रणी । ते'. ११ सी न स्वरूपादिति. १२ सी ना उक्तस्त' या .
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org