________________
ध्याश्रयमहाकाव्ये पञ्चदशः सर्गः।
भ्रातृव्यान्सोतिगार्गास्तानथ गार्गिकमत्रिणः ।
सभ्रात्रीयान्सस्वस्रीयान्धृत्वा निववृते ततः॥१॥ १. अथ स जयसिंहस्ततो मालवदेशान्निववृते । किं कृत्वा । सभ्रात्रीयान्सस्वस्रीयान्भ्रात्रपत्यभगिन्यपत्यसहितानुपलक्षणत्वात्सबान्धवानित्यर्थः । तथा भ्रातृव्यान्भ्रातुरपत्यानि भ्रातृव्या एकद्रव्याभिलाषित्वाद्भातृव्या इव भ्रातृव्यास्तान महाशत्रूनित्यर्थः । तान् यशोवर्मादिनृपान्धृत्वा गुप्तौ क्षित्वा । किंभूतान्सतः । गार्गिका गार्या अपत्यानि स्वामिने स्त्रीजनोचितकुमत्रदानेनाज्ञेयपितृकत्वान्निन्द्या युवानो मत्रिणो येषां तानत एवातिगार्गाने राज्याझंशेन स्वपूर्वजनाम्नोपि हारणेतिनिन्द्यत्वाद्गार्या अपत्यं निन्धं युवानमतिक्रान्तान् ॥ गार्गान् । गार्गिक । इत्यत्र "वृद्ध" [८७ ] इत्यादिना णेकणौ ॥ भ्रातृव्यान् । इत्यत्र "भ्रातुर्व्यः" [ ८८ ] इति व्यः ॥ भात्रीयान् । स्वस्रीयान् । इत्यत्र “ईयः स्वसुश्च" [ ८९ ] इतीयः ॥
मार्गेभात्तैः समातृष्वस्त्रीयपैतृष्वसेयकैः।। पैतृष्वसीयो नु हरेः सोतिमातृष्वसेय कः ॥२॥ २. स जयसिंहः समातृष्वस्रीयपैतृष्वसेयकैर्मातृभगिनीनां पितृ१ ए सी °न्निद्या यु. २ बी वागााने'. ३ ए णे इनि. सी णेपि नि'. ४ बी गार्यान्.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org