SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ २०६ व्याश्रयमहाकाव्ये माणवैः । इति " माणवः कुत्सायाम् ” [ ९५ ] इत्यनेन निपात्यते ॥ त्यक्त्वा बहुकुलीनांचा कुलीनांश्च तदा द्विपान् । राज्ञां भद्रकुलीनान्स जग्राहोपायनीकृतान् ॥ ४ ॥ २ ४. तदा पथि गमनकाले स नृप उपायनीकृतान्ढौकनीकृतान्भद्रकुलीनान्भद्र जातीये भेन्द्र कुलस्यापत्यानि राज्ञां द्विपाञ्जग्राह । किं कृत्वा । त्यक्त्वा । कान् । बहुकुलीनांश्च मन्दजातित्वेनेषद संपूर्ण कुलापत्यानि तथाकुलीनांश्च मृगजाति मिश्रजातित्वान्न कुलस्यापत्यानि ॥ कौलेयकानामात्तानां तेनेभानां पुरो बभौ । बहुकुल्यो न्वकुल्यो नु शङ्के शक्रद्विपोपि सः ॥ ५॥ ५. शङ्के सर्वगजोत्कृष्टतया प्रसिद्धः शक्रद्विपोप्यैरावणोपि तेन राज्ञात्तानां राजभ्यो गृहीतानां कौलेयकानां भद्रजातीयानामिभानां पुरो बभौ । कीदृग् । बहुकुल्यो न्वीषदसमाप्तकुलापत्यमिवाकुल्यो न्वकुलीन इव वा । केषांचित्तेषामपेक्षया हीनगुणत्वात्केषांचिच्च हीनतम - गुणत्वात् ॥ [ जयसिंहः ] 3 प्रेक्ष्य जिष्णुं तमायान्तं ग्राम्यैर्वाहुकुलेयकैः । दौष्कुलेयैर्दुष्कुलीन निम्नैश्वात्मा कृतार्थितः ॥ ६ ॥ । ६. स्पष्टः । किंतु कैश्चिद्वाहुकुलेयकैः किंचिद्धीनकुलापत्यैः । कैविच दौष्कुलेयैर्दुष्कुलस्यापत्यैः । कैश्चिदुष्कुलीन निम्नैश्च दुष्कुलापत्येभ्योऽपि नीचैरतिनीच कुलैश्चेत्यर्थः । आत्मा कृतार्थितोदृष्टपूर्वतास्नृपदर्शनात्स्वजन्म सफलितमित्यर्थः ॥ १ एन्स ग्रा. २ एकानां मत्ता. बी कानामत्ता ३ बी ष्णुं त्वमा". ४ सी 'कुलः स्या'. १ए पानी. ५ एत्वात्. Jain Education International २ बी 'येनकु . ३ बी 'यामि'. For Private & Personal Use Only ४ सी ' नकुलत्वा'. www.jainelibrary.org
SR No.003629
Book TitleDvyasrayakavya Part 02
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1921
Total Pages628
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy