________________
ढ्याश्रयमहाकाव्ये चतुर्दशः सर्गः ।
इत्याटमाट निशि कर्म कृत्वा कृत्वाद्भुतं वेश्मनि पूर्वमायम् । स रात्रितुर्ये प्रथमं प्रबोधमानर्च देवान गुरुमग्र आसम् ॥ १॥
१. स नृपो देवान्गुरुं चानर्च । किं किं कृत्वा । इत्युक्तनीत्या निश्याटमाटमभीक्ष्णं विचर्य तथाद्भुतं कर्म नागाय तथोषदानरूपमवदातं कृत्वा कृत्वाभीक्ष्णं विधार्य तथा वेश्मनि पूर्व लोकजागरणाप्रथममायमागत्य तथा रात्रितुर्ये रात्रेश्चतुर्थे यामे लोकप्रबोधात्प्रथम प्रबोधं जागरित्वा तथाग्र आसं देवानां गुरोश्च पुरः स्थित्वा ॥ सर्गेस्मिन्नुपजातिश्छन्दः ॥ गजं प्रभाते प्रथमं प्रपद्य पूर्व समारुह्य हयं कदाचित् । अग्रेधिरुह्याथ वशामटन्स नाज्ञाय्युषासंचरितो जनेन ॥ २ ॥
२. स नृप उषासंचरितो रात्रौ चर्यया भ्रान्तो जनेन नाज्ञायि । यतः कीदृशः । प्रभातेटन राजपाटिकया भ्राम्यन् । किं कृत्वा । प्रथममन्यक्रियाभ्यः पूर्वं गजं प्रपद्यारुह्य कदाचित्पूर्व हयं समारुह्याथ तथा कदाचिच्चाने पूर्व वेशां हस्तिनीमारुह्य । प्रभाते स्वापेहि रात्रौ जागर्या शक्यतेयं तु जागरूकत्वात्प्रातरेवोत्थाय राजपाँटिकायामगमत्तेनास्य रात्रौ चर्या न ज्ञातेत्यर्थः ॥
१ए माद नि.
१ सी कि कृ. २ ए डी थोपदा. ३ सी त्वामी. ४ बी सीय यथा. ५ ए ‘तुयें या . ६ बी तिच्छन्दः. सी तिच्छदं । ग. ७सी रिता रा. ८ बी °टिकायां भ्रा. ९सी वश्यां ह. १० ए 'पादिका.
२१
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org