________________
१६२
ध्याश्रयमहाकाव्ये
[जयसिंहः]
भाटमाटम्। कृत्वा कृत्वा । इत्यत्र "रेष्णम्च०" [ ४८ ] इत्यादिना रब्णम् स्वा च ॥
पूर्वमायम् । अग्र आसम् । प्रथमं प्रबोधम् । इत्यत्र "पूर्व०" [४९ ] इत्यादिना स्णम् वा ॥ पक्षे । पूर्व समारुह्य । अग्रेधिरुह्य । प्रथमं प्रपद्य ॥ वेत्त्यन्यथाकारमशेषमेवंकारं कथंकारमिदं रहो नः । तत्कोपि विद्याधर एष इत्थंकारं जनै रात्रिविहार्यतर्कि ॥३॥
३. एष राजा रात्रिविहारी प्रच्छन्नं रात्रौ चरन्सन्नतर्कि शङ्कितः । कथमित्याह । अन्यथाकारमन्यथा यदि विद्याधरो न स्यात्तदा कथंकारं कथं नाम नोस्माकमिदं प्रत्यक्षमनेनोच्यमानमशेष रहः प्रच्छन्नवृतमेवंकारमनेन यथावृत्तभणनप्रकारेण वेत्ति जानाति तत्तस्मादेष जयसिंहः कोप्यज्ञातो विद्याधरः । विद्याधैरो हि विद्याबलेनाज्ञायमानश्वरत्रहोपि जानातीत्थंकारमनेन प्रकारेण ॥ जनोन्यथाकृत्व ऋजूक्तिरेवंकृत्वा कथंकृत्व ऋतं सुखी स्यात् । छलोन्मुखं शाकिनिकाद्यपीत्थंकृत्वा नृपो मन्त्रकृदन्वशात्सः ॥४॥ ___४. स नृपश्छलोन्मुखं शॉकिनिकाद्यपि कुत्सितशाकिनीभूताद्यप्यास्तामन्यायिजनादीत्यप्यर्थः । इत्थंकृत्वानेन रात्रौ चर्यारूपेण प्रकारेणान्वशान्मत्रैरशिक्षयत् । यतो मन्त्रान्कृतवान्साधितवान्मन्त्रन्मात्रिकः । हेतुमाह । अन्यथाकृत्वान्यथा यदि शाकिन्याद्यहं नानु
१ सी डी कृत्वा . २ सी डी खं स्याकि?. ३ डी पो यत्र. १ ए ख्णम इ. २ सी डी रात्रवि. ३ सी तक्कि शंकितं क. डी तक्वि शश्वेतं क. ४ डी था य. ५ ए °नोन्यमा०. ६ सी त्तसेवां का. ७ ए णवित्ति०. ८ डी त्ति । त. ९ सी डी तोपि वि०. १० डी धरा हि. ११ सी शाकनि. डी शाकमिका. १२ डी चोरू. १३ बी "शिष्यय. १४ डी दि पाकि. १५ सी डी यदहं.
१४
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org