________________
व्याश्रयमहाकाव्ये
[जयसिंहः] ध्यात्वा । इत्यत्र “प्राक्काले' [ ४७ ] इति क्त्वा । अर्थानुलोम्यात्सूत्रक्रमभङ्गेनेदमुदाहरणम् । वसन्ततिलका छन्दः ॥
नेत्रे निमील्य हसतां वदतां प्रकाश्य
दन्तांश्च मूलकपणाद्यपमाय याताम् । मौग्ध्योद्यमौ नरपतिः पथि कच्छियूनां
पश्यन्ययौ निजमलक्षित एव हर्म्यम् ॥ ११० ॥ ११०. अलक्षित एव नृपतिर्निजं हयं ययौ । कीहक्सन । कच्छियूनां कच्छोनूपप्रायो देशविशेषोस्त्येषां ते कच्छिनैः काच्छिका ये युवानस्तेषां मौग्ध्योद्यमौ मौग्ध्यं नेत्रनिमीलने हसनरूपं दन्तप्रकाशने वचनरूपं च मौर्यमुद्यमं च तावत्यां वेलायां मूलकपणादिप्रतिदानाय यानं पथि पश्यन् । यतो नेत्रे निमील्याज्ञत्वेन हास्यातिरेकालोचनसंकोचने सति हसतां तथाज्ञत्वादेव दन्तांश्च प्रकाश्य दन्तोद्घाटने सति वदतां वार्तयतां तथात्युद्यमित्वेन मूलकपणादि मूलकमुष्टयादि । अत्रादिपदात्पत्रपुष्पफलाद्यपमाय प्रतिदातुमन्यत्र यातां गच्छताम् ॥
नेत्रे निमील्य हसताम् । दन्तान्प्रकाश्य वदताम् । अपमाय याताम् । अत्र "निमील्यादि०' [ ४६ ] इत्यादिना क्त्वा वा ॥ इति श्रीजिनेश्वरसूरिशिष्यलेशाभयतिलकगणिविरचितायां श्रीसिद्धहेमचन्द्रा
भिधानशब्दानुशासनव्याश्रयवृत्तौ त्रयोदशः सर्गः ॥
१ एकपथि. २ बी लकश्छन्द:. ३ सी °नः कच्छि'. ४ ए डी वातं यथा तथा . सी वातं यथा तत्यु. ५ बी ‘णायत्रा०. ६ सी डी टयाद्यादि. ७ ए दिप?.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org