SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ [ है० ५.४.४५.] त्रयोदशः सर्गः । १५९ मयेध्वं च पुरोध्वनीती हेध्वम् । अत्र “प्रचये ० " [ ४३ ] इत्यादिना हिस्वौ वा तध्वमौ च तद्युष्मदि वा ॥ खलु क्षुभित्वा भीत्वालमित्यालापाः क्षपाचराः । परिवृत्य सभार्यं तं पातालं प्राविशन्नथ ॥ १०८ ॥ 9 १०८. स्पष्टः । किं तु क्षुभित्वा खलु क्षोभेण सृतं भीत्वालं भयेन सृतमिती गालापो येषां ते तथा ॥ अस्मिन्नलं विहरणेन खलु स्थितेना तिक्रम्य यङ्गगनमिन्दुरनाप्य चास्तम् । आरादहं सरिदतिक्रमणेन चेति ध्यात्वा नृपः पुरमभि त्वरितः प्रतस्थे ।। १०९ ॥ १०९. नृपः पुरमभि त्वरितः प्रतस्थे । किं कृत्वा । ध्यात्वा । किमित्याह 1 यद्यस्माद्धेतोर्गगनमतिक्रम्योलङ्घयास्तमस्ताचलमनाप्य चालब्ध्वा चेन्दुर्वर्तते गगनात्परेणास्ताच्चावरेणेन्दुरस्तीत्यर्थः । तस्माद्यस्मादहं च सरिदतिक्रमणेन सरस्वत्या उल्लङ्घनेनाराद्दूरं वर्ते सरितः परस्ताद्दरप्रदेशेहमस्मीत्यर्थः । यस्माद्रात्रिशेषोभूदहं च पुराहरं वर्त इति तात्पर्यार्थः । तस्मादलक्ष्यपुरप्रवेशस्य विघ्नभूतत्वेनास्मिन्नरण्ये विहरणेन विचरणेनालं सृतं तथास्मिंस्थितेनावस्थानेन खलु सृतमिति ॥ भवाम् । विहरणेनालम् । खलु क्षुभित्वा । खलु स्थितेन । इत्यत्र "निघेलंखल्वोः क्त्वा" [ ४४ ] इति वा क्त्वा ॥ अतिक्रम्य गगनमिन्दुः । अवरे । अस्तमनाप्येन्दुः । अत्र "परावरे " [ ४५] 3 इति क्त्वा वा ॥ पक्षे । सरिदतिक्रमणेन ॥ १ एरिदिति'. सी डी 'रिति'. १ सी डी किं क्षु.. २ सी डी र ०.३ बी 'ति वा क्त्वा प. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003629
Book TitleDvyasrayakavya Part 02
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1921
Total Pages628
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy