SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ [है० ५.४.७.] त्रयोदशः सर्गः। १३९ तथा यस्त्रिंशदात्रः कार्तिक उक्तः पूर्वमागामितया भणितस्तस्यावरे पञ्चदशाहकेर्वाग्भागवर्तिषु पञ्चदशसु दिनेष्वहं न स्वप्तास्मि व्याख्याखयभणनचिन्तनव्यापृतत्वेन स्वापवेलाया अभावान्न शयिष्य इति ।। अयमागामिमासस्य परतः पर्ववासरात् । पठित्वा भविता सिद्धो लवलीदर्शयिष्यति ॥ ५५ ॥ अदर्शयिष्यो लवलीस्त्वं तक्षककुलाय्य चेत् । अत्याश्चर्य न कस्योदपादयिष्यः सचेतसः ॥५६॥ दृष्टस्त्वं कुहकस्यार्थी तदातान्यश्च भिक्षुकः । अप्यद्रक्ष्यत्स चेदप्याम्नास्यदृष्टो न तु त्वम् ॥ ५७ ॥ प्रत्यष्ठास्यः कथं मिथ्यैतद्विगर्हामहे वयम् । कथं प्रतीयाच्छ्रद्धत्तेन्योपि चेति तमब्रु(ब्र)वम् ॥५८॥ ५५-५८. इत्येवमुपहासप्रकारेणासत्यवादित्वप्रकारेण च तं दमनकमहम (ब्र)वम् । प्रकारमाह । अहो अयं दमनक आगामिमासस्य कार्तिकस्य संबन्धिनः पर्ववासरात्पूर्णिमादिनात्परतः पश्चात्पठित्वानेकविद्या अधीत्य सिद्धो विद्यासिद्धो भविता भविष्यति । ततो विद्याप्रभावेन लवलीदर्शयिष्यति । तथा हे तक्षककुलाग्र्य चेत्त्वं लवलीरदर्शयिष्यस्तदा कस्य सचेतसोत्याश्चर्यं नोदपादयिष्यो हेमन्ते लवल्यो न पुष्पन्त्येवेति । तत्र लवलीः पुष्पिता न दर्शयिष्यसि न च कस्याप्याश्चर्यं करिष्यसीत्यर्थः । हेमन्ते लवल्यः पुष्पन्त्येव परमसौ हेमन्ते लवल्यो न पुष्पन्त्येवेति भ्रान्त्या जाननेवं वक्ति । तथा उ हे दमनक मया त्वं कुहकस्येन्द्रजालाश्चर्यस्यार्थीदृष्टस्तदाता कुहकस्य __ १ डी विक्षो ल°. २ ए सी डी 'ब्रुवाम्. १ ए उक्तं पू. २ बी शदि०, ३ सी डी द्यायधी. ४ बी सी विष्य ५ सी °या तु कु. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003629
Book TitleDvyasrayakavya Part 02
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1921
Total Pages628
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy