SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ १३८ व्याश्रयमहाकाव्ये [ जयसिंहः ] यो हेमन्त आगाम्याग्रहायण्यास्ततोवरे । पुष्पिष्यन्ति ममोद्याने लवल्यः सर्वतोपि हि ॥ ५१ ॥ आगामी पौषमासो यो दशरात्रस्य योवरः । तत्र कर्ता युक्त मित्रैरु निकोत्सवम् ॥ ५२ ॥ त्रिंशद्रात्रो य आगाम्यवरे तस्यार्धमासि तु । श्रोतास्मि द्विगुरोर्व्याख्यां पृथग्व्याख्या हिं तन्मम ॥ ५३ ॥ त्रिंशद्रात्रो य उक्तोस्यावरे पञ्चदशाहके । स्वप्तास्मीति दमनः सहाध्याय्यब्रवीन्मम ॥ ५४ ॥ ५१ - ५४. मम सहाध्यायी दमनो नाम नागकुमारो ममाग्रेब्रवीत् । किमित्याह । योयमित्यादि । स्पष्टम् । किं तु 1 अयमैषमस्तनः ः । ततस्तत्र हेमन्ते । आग्रहायण्या मार्गशीर्ष्याः सकाशादव व भागे । लवल्यो लताविशेषाः । दशानां रात्रीणां समाहारो दशरात्रोवरोर्वा - भागरूपः । उद्यानं विषयतयास्त (स्त्य ? ) स्याः क्रीडाया उद्यानिक तस्या उत्सवं कर्तास्महे लवली पुष्पोच्चयनाद्यर्थं करिष्यामः । तथा त्रिशद्रात्रत्रिंशद्रात्रसमाहाररूपो मासोर्थात्कार्तिक आगामी तस्यावरेर्वाग्भागवर्तिन्यर्धमासि त्वर्धमासे पुनरहं गुरोरुपाध्यायात् । द्वौ वारावस्या द्विर्व्याख्यां श्रोतास्मि । पौषाद्यदशरात्रे द्यानिकोत्सवेन व्याख्याभङ्गो भावीत्यत्र द्वे व्याख्याने भणिष्यामीत्यर्थः । तत्तस्माद्धेतोर्ह स्फुटं मम पृथगन्य सहाध्यायिभ्यो भिन्ना व्याख्या भविष्यति । १ ए सी डी 'द्यानको'. २ सी डी हि तान्मनः । त्रि. ३ ए सी डी न सुप्ता १ ए सी डी धासिका. डा. ४ सी मासे. Jain Education International २ ए 'साहे व सी डी साहे. ३ ए सी ५ बी वयां द्वि०. For Private & Personal Use Only www.jainelibrary.org
SR No.003629
Book TitleDvyasrayakavya Part 02
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1921
Total Pages628
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy