________________
१४०
याश्रयमहाकाव्ये [जयसिंहः ] दातान्यश्च भिक्षुको दृष्टः । परं स भिक्षुकश्चेत्त्वामप्यद्रक्ष्यद्बाढं दृष्टवानभविष्यत्तदा त्वामानास्यत्कुहकविद्यामपाठयिष्यत् । न तु त्वं भिक्षुकेण दृष्टस्तस्मादसतीर्लवलीस्त्वं दर्शयितुं नालं भविष्यसीत्यर्थः । अतश्चैतद्धेमन्ते लवलीनां पुष्पोद्भवनं मिथ्यालीकं कथं त्वं प्रत्यष्ठास्यः स्थापितवान्न कथमपीत्यर्थः । वा यद्वा यदि त्वं मिथ्यैतत्प्रतिष्ठितवांस्तदा प्रतितिष्ठ परमित्यर्थः । अन्योपि न केवलमहमपरोपि जनः कथमलीकमेतत्प्रतीयात्प्रतीतवांस्तथा कथं श्रद्धत्ते संभावितवान्न कथमपीत्यर्थः । तस्मादेतद्विस्फुटं गर्हामह इति ॥
योयं हेमन्त आगाम्याग्रहायण्यास्ततोवरे पुष्पिष्यन्ति लवल्यः । अत्र "कालस्य." [७] इत्यादिना न श्वस्तनी ॥ अनहोरात्राणामिति किम् । आगामी पौषमासो यो दशरात्रोस्य योवरस्तत्र कर्तास्मह उद्यानिकोत्सवम् । त्रिंशदात्रो य आगाम्यवरे तस्यार्धमासि श्रोतास्मि व्याख्याम् । त्रिंशद्वात्रो य उक्तोस्थावरे पञ्चदशाहके न स्वप्त स्मि । इति त्रिविधेयहोरात्रे मा भूत् ॥
अयमागामिमासस्य परतः पर्ववासरालवलीदर्शयिष्यति । भविता सिद्धः । अत्र “परे वा" [ ८ ] इति न श्वस्तनी वा ॥
चेल्लवलीरदर्शयिष्योत्याश्चर्य कस्य नोदपादयिष्यः । अत्र "सप्तम्यर्थे." [९] इत्यादिना क्रियातिपत्तिः ॥ लवलीदर्शनं हेतुराश्वर्योत्पादनं फलं चान सप्तम्यर्थः॥
दृष्टस्त्वं कुहकस्यार्थी तहातान्यश्च भिक्षुकः । अप्यद्रक्ष्यत्स चेर्दप्याम्नास्यदृष्टो न तु त्वम् । अत्र "भूते" [१०] इति क्रियातिपत्तिः ॥
१ बी द्रक्षद्वा. २ ए त्वान्नाम्ना. सी त्वानाम्ना. डी त्वाम्ना. ३ बी थं प्र'. ४ सी ना श्व'. ५ बी द्रक्षत्स. ६ डी दास्य'. ७ ए प्यान्नास्य. ८ ए ते क्रिया इ०. बी ते क्रि'.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org