SearchBrowseAboutContactDonate
Page Preview
Page 14
Loading...
Download File
Download File
Page Text
________________ 14 प्रस्तावः । ५३ न गृणाशुभरुचः ३. ४. १३. गृणातिः पाणिनीये नास्ति । अन्ययोरपि भृशार्थ एव निषेधः । पौनःपुन्ये तु शोशुभ्यते रोरुच्यते इति भवति । ५४ नोतः ३. ४. १६. पाणिनीयादधिकमेतत् । ५५ फेनोष्मबाष्पधूमादुद्वमने ३.४ ३३. धूमशब्दोऽधिकः पाणि . नीयात् । ५६ पुनरेकेषाम् ४ १. १०. नैतत्पाणिनीये । ५७ जृभ्रमवमत्रसफणस्यमस्वनराज भ्राजभ्रासभ्लासो वा ४. १.२६. वमतिः पाणिनीयादधिकः । I ५८ ष्ठिवसिवोऽनटि वा ४. २. ११२. नैतत्पाणिनीये । किं तु कृत्यस्युटो बहुलम् ३. ३. ११३. इति बहुलवचनान्निष्ठीवनं सीवनमित्यनयोरपि साधुत्वं स्यात् । ५९ इको वा ४. ३. १६. पाणिनीय इण्वन्द्वावान्नित्यमेव । आर्धधातुकाधिकारोक्तस्यैवातिदेश इति मते नैव यण् इति कथंचि - दुभयसिद्धिः । · ६० न श्विजागृशसक्षणयेदितः ४. ३. ४९. पाणिनिस्तु ह्यन्तक्षणश्वसजागृणियेदिताम् ७ २.५ इति शसिस्थाने श्वासं पठति । ६१ विश्रमेर्वा ४. ३. ५६. पाणिनीये तु नोदात्तोपदेशस्य ० ७. ३. ३४. इति वृद्धिनिषेधः । तेन विश्रम इत्येव । निवृत्तप्रेषणाद्धातोर्णिचि ततो धनि विश्राम इत्यपि सिध्यतीत्यवगन्तव्यम् । ६२ नशेर्नेश वाङि ४. ३. १०२. पाणिनीयादधिकमेतत् । तेनानेशत् अनशत् । इति रूपद्वयं साधितम् । पाणिनीये तु अनशदित्येव । ६३ वेटोऽपतः ४. ४. ६२. अनेन पतित इति साधितम् । पाणिनये निपतिदरिद्रातिभ्यः सनो वा इड् वाच्य इति वार्तिकसद्भावाद्यस्य विभाषा ७. २. १५. इतीनिषेधवारणाय पततेर्निषेधोऽन्वेषणीयः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003629
Book TitleDvyasrayakavya Part 02
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1921
Total Pages628
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy