SearchBrowseAboutContactDonate
Page Preview
Page 15
Loading...
Download File
Download File
Page Text
________________ प्रस्तावः। 15 ६४ श्वसजपवमरुषत्वरसंघुषास्वनामः ४. ४. ७५. पाणिनीयात् श्वसिजपिवमयोऽधिकाः । तेन श्वस्त-जप्त-वान्त इत्यपि साधितम्। पाणिनीये तु श्वसित जपित वमित इत्येव भवति । आगमशास्त्र मनित्यमिति तत्सिद्धिर्वा । ६५ श्लिषशीथासवसजनरुहजभजेः क्त: ५. १. ९. पाणिनीया गजतिरधिकः । ६६ शकितकिचतियतिशसिसहियजिभजिपवर्गात् ५. १. २९. यजिभजी अधिकौ पाणिनीयात् । यज्यं भज्यमित्युदाहृतम् । पाणिनीये तु याज्यं भाज्यमिति भवति । ६७ कुप्यभिद्योद्ध्यसिध्यतिष्यपुष्ययुग्याज्यसूर्यं नाम्नि ५. १. ३९. तिष्यशब्दोऽधिकः । पाणिनीये तु बाहुलकात्साधुत्वं बोध्यम् । ६८ ऋदुपान्त्यादकृपिचूदृचः ५. १. ४१. ऋचिरधिकः । अय॑म् । पाणिनीये तु ऋच्यम् । अर्चतेरय॑मिति भवतीत्यन्यत् । ६९ कृवृषिमृजिशंसिगुहिदुहिजपो वा ५. १. ४२. गुहिदुहिजपयोs. धिकाः । गुह्यम् । गोह्यम् ॥ दुह्यम् । दोह्यम् ॥ जप्यम् । जाप्यम् ॥ पाणिनीये तु गोह्यम् । दोह्यम् । जप्यम् । इत्येव । ७० नाम्युपान्त्यप्रीकृगज्ञः कः ५. १. ५४. गिरतिरधिकः। गिरः। पाणिनीये मूलविभुजादित्वात्साधुत्वमवगन्तव्यम् । ७१ धनुर्दण्डत्सरुलाङ्गलाङ्कुशर्टियष्टिशक्तितोमरघटागृहः ५. १. ९२. दण्डत्सरुऋष्टिशब्दा अधिकाः । दण्डग्रहः । त्सरुग्रहः । ऋष्टि ग्रहः । पाणिनीये तु कर्मण्यण् ३. २. १. इत्यण् स्यात् । ७२ रजःफलेमलाद्हः ५. १. ९८. रजोग्रहिः । मलग्रहिः । एतौ पाणिनीयादधिको। ७३ देववातादापः ५. १. ९९. अधिकमेतत्सूत्रम् । पाणिनीये तु देवापिवातापिशब्दयोर्बाहुलकात्साधुत्वं मन्तव्यम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003629
Book TitleDvyasrayakavya Part 02
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1921
Total Pages628
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy