________________
१०६
याश्रयमहाकाव्ये
[ जयसिंहः ]
६९. समाहूयन्ते प्राणिनोत्रेति समाह्वयः कुक्कुटादियुद्धद्यूतं कौतुकार्थिलोकमेलापकहेतुत्वादङ्गाङ्गमहायुद्धहेतुत्वाच्च तत्तुल्य आहवमूर्ध्नि रणमस्त स नृपो बर्बरकाह्वयेन सहादीव्ययुद्धक्रीडया क्रीडत् । कीदृक् । परिघन्तावर्गले इवाचरन्तौ भुजौ यस्य स तथा । तथा विहवोन्मुखः स्पर्धायामभिमुखो निहवोन्मुख सिंहनादाभिमुखश्च सन् । कीदृशा सता । सोपहवेन सस्पर्धेनाभिहवोन्मुखेन च सिंहनादेच्छुना च ॥
परिघ । इत्ययं “परेर्घः” [ ४० ] इति निपात्यः ॥
समाह्वये । आह्वयेन । इत्येतौ "ङ्ख: ०" [ ४१ ] इत्यादिना निपात्यैौ ॥
निहव । अभिव | उपहवेन । विहव । इत्यत्र " न्यभि० " [ ४२ ] इत्यादिनाल | वाशब्दश्वोकारः स्यात् ॥
आहव । इत्यत्र “आङो युद्धे " [ ४३ ] इत्यल । वाशब्दवोकारः ॥ जपकृद्व्यधाहावसध्यदालेर्हव कर्तुराहायकदुन्मदस्य । गतयामतुर्थे यमवद्वधेच्छुर्नृपतिर्व्यधान्मूर्म्यसिनास्य घातम् ॥७०॥
७०. नृपतिरस्यै बर्बरस्य मूर्ध्यसिना घातं व्यधात् । कीदृक्सन् । आह्रायकृत्स्पर्धावांस्तथास्य वधेच्छुर्यथा गतयामस्य यातयामस्य वृद्धस्य तुर्ये वृद्धावस्थायाश्चतुर्थे भागे यमो वृद्धस्य वधेच्छुः स्यात् । यतः कीदृशस्यास्य । जपकृतां मुनीनां व्यधो हिंसा यतः सा तथा हावसहक्वाहावो निपानं यस्य पार्श्वभागे जलावष्टम्भाय काष्ठानि पाषाणा बध्यन्ते तद्वत्स्थूलोन्नता च रदालिर्दन्तपङ्क्तिर्यस्य तस्य तथोन्मदस्य बलाद्यवलेपेन मत्तस्यात एव हवकर्तुः स्पर्धाकृतः ||
१ ए सी डी .
१ एन्मुखेन च. ५ सी डी तथो..
यस्त
Jain Education International
२ सी डी च सन्. ३ बी °स्य मू.
For Private & Personal Use Only
४ बी -
www.jainelibrary.org