SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ [ है० ५.३.४४.] द्वादशः सर्गः । हसकृत्विषा हासकृतोस्य मूर्ध्नि कणवानसिः काणवति द्विधाभूत् । नृप उत्स्वनः स्वानकृतीथ तेन युयुधे भुजाभ्यां विहितारवाभ्याम् ॥७१ ॥ ७१. त्विषा कान्त्या कृत्वा हसकृद्धसन्निवासिर्जयसिंहखड्गोस्य बर्बरस्य काणवति खड्गघातेन सशब्दे मूर्ध्नि क्वणवाञ् शिलातुल्ये मूस्फि(स्फा?)लनाद्भङ्गाच्च सशब्दः सन्द्विधा द्विखण्डो बभूव । "विचाले च” [७. २. १०५] इति धा । अत एव कीदृशोस्य । हासकृत उपहासकारिणः । अथासिभङ्गानन्तरं नृप उत्स्वन उद्गतसिंहनादः सन्स्वानकृता तेन बर्बरेण सह विहितारवाभ्यां मिथःसंघट्टेन कृतशब्दाभ्यां भुजाभ्यां कृत्वा युयुधे ॥ नृभुजस्तदाराव्यसगाप्लवं सोजनयद्धजपग्रहबन्धमूढात् । नृपतिर्जलाप्लावमवग्रहास्तं जलदादवग्राहजयी ग्रहो नु ॥ ७२ ॥ ___७२. तदा नृपतिर्नुभुजो बर्बरादारावी संभारेण पातात्सशब्दो योसृगाप्लवो रक्तौघस्तमजनयदुदपादयत् । यतः किंभूतात् । भुजावेव बन्धहेतुत्वात्प्रग्रहो रज्जुस्तुलासूत्रं वा तेन यो बन्धस्तेन मूढान्मूर्छितात् । यथावग्रहास्तं वृष्टिप्रतिबन्धेन रुद्धं जलाप्लावं वृष्टिमवग्राहजयी वृष्टिप्रतिबन्धस्य जेता ग्रहः सूर्यादिर्जलदाजनयति ॥ प्रग्राहवान्प्रावरदस्रधारोच्छ्रायस्य तस्य प्रवरत्प्रभौघः । प्रावारवद्राग्भुजयोः समुच्छ्रय्युद्यावमुद्रावकरोकरोद्राट् ॥ ७३ ॥ १ ए सी डी ताव ते. २ ए °प्रगृह, . सी डी "ङ्गात् स. २ ए बी मुंडे खण्डे ब°. ३ सी कृभुजाभ्यां सशब्दाभ्या कृत्वा. डी कृभुजाभ्या सशब्दाभ्यां कृत्वा. ४ ए सी डी 'तिभूभु. ५ बी प्रव. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003629
Book TitleDvyasrayakavya Part 02
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1921
Total Pages628
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy