________________
१०४
व्याश्रयमहाकाव्ये [जयसिंहः] ६६. स नृभुपाक्षसो बर्बरो रणप्रघाणे रण एव कातरबालैर्दुर्लध्यत्वात्प्रघाणो द्वारालिन्दकस्तत्र प्राट वभ्राम । कीदृक् । यमस्य यद्भीष्म रौद्रं वेश्म तस्य प्रघणे द्वारालिन्दकतुल्ये मुखे वक्रेन्तर्घणराजमन्तर्घणाख्यदेशभेदनृपमन्तर्घनपानुजं चान्तर्घनदेशराजलघुभ्रातरं च निद्धनिक्षिपंस्तथोद्धसंघैरुद्धानां प्रशस्यानां महाभटानां संधैः समूहैः सह सहितः । कीदृशैः । निविशेषेण हन्यन्ते ज्ञायन्ते निघास्तुल्यारोहपरिणाहास्तथोद्धन्यन्त एस्वित्युद्धना यत्रच्छेदनाय कुट्टनार्थ वा काष्ठान्याधीयन्ते तत्तुल्या अतिबलिष्ठा अनेकशस्त्रघाताङ्किताश्चेत्यर्थः । अंसाः स्कन्धा येषां तैः ॥ अगमन्नृपोपनमथाभिगर्जन्स घनं घनोच्चापधनो घनो नु । विघनैः खगैः सूचितदुर्निमित्तो द्रुधनोग्रदंष्ट्रोरमयोधनांसः॥६७॥
६७. अथ द्रुघनोग्रदंष्ट्रः कुठाररौद्रदाढस्तथायोधनो धनस्तद्वन्निविडावंसौ स्कन्धौ यस्य स तथा स बर्बरो नृपोपन्नं जयसिंहसमीपमरं शीघ्रमगमत् । कीदृक्सन् । वयः पक्षिणो हन्यन्ते यैस्तैर्विघनैः खगैगुध्रादिपक्षिभिः सूचितदुर्निमित्त उपरिभ्रमणेन ज्ञापितारिष्टः । तथा घनो नु मेघ इव घना निविडा उच्चा उत्प्लवनेनोन्नता अपघना अङ्गावयवा यस्य सः । तथा घनं निरन्तरमभिगर्जन् । अन्तर्घन । अन्तर्पण । इत्येतो "हनः०" [ ३४ ] इत्यादिना निपात्यौ ॥ प्रघणे । प्रघाणे । इत्येतौ "प्रघण." [३५] इत्यादिना निपात्यौ ॥
१ डी ° नोधनस्तद.
१ बी सी डी खे स्वव. २ ए सी डी नदे'. ३ सी डी निर्विशे'. ४ बी अंशाः स्क. ५ सी डी येवि . ६ बी नं बहुतरम'. ७ बी त्यौ । निघ । उ.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org