________________
१०३
[है० ५.३.३४.] द्वादशः सर्गः। वर्ष । भय । इत्येतो "वर्षादयः क्लीबे" [ २९ ] इति निपात्यौ ॥ समजः पशूनाम् । वृकोदजेन । इत्यत्र “समुदोजः पशौ" [३०] इत्यल् ॥ कितवो ग्लहं नूद्दधदस्त्रमागावनिपातिताप्तोपसरोदरोथ । प्रमदाढ्यनृशाकपणं नु भोक्तुं युधि बर्बरः संमदकृन्निजानाम् ६५
६५. अथ प्रमदाढ्यनृन्विजयेन सहर्षान्नरभटाञ् शाकमुष्टिमिव भोक्तुं बर्बरो नाम राक्षसाधिपो युध्यागात् । कीदृक्सन् । अस्त्रमुदधदुत्पाटयन् यथा कितवो द्यूतकारो ग्लहमक्षाणां गृहीतान्पाशकानित्यर्थः । द्यूतफलके पातनाय तस्मादुद्दधाति । तथोपसरो गर्भग्रहणार्थं स्त्रीषु प्रथमं सरणम् । अत्र चोपचारात्तदुत्पाद्यो गर्भ उच्यते । आप्तः प्राप्त उपसरो यकाभिस्ता गर्भिण्यो ध्वनिना सिंहनादेन पातितानि भयातिरेकोत्पादेन भ्रंशितान्याप्तोपसराणामुंदराण्युपचारादुदरस्था गर्भा येन स तथात एव निजानां रक्षसां संमदकृत् ।। उपसर । ग्लहम् । अत्र "सृग्लहः ” [ ३१ ] इत्यादिनाल ॥ शाकपणम् । अत्र "पणेर्माने' [ ३२ ] इत्यल ॥ संमद । प्रमद । इत्येतौ “संमद०" [ ३३ ] इत्यादिना निपात्यौ ॥ यमभीष्मवेश्मप्रघणे मुखेन्तर्घणराजमन्तघनपानुजं च । निदधत्सह प्राट रणप्रघाणे नृभुगुद्धसंघैः स निघोद्धनांसः ॥६६॥
१ ए निदप्रधा.
१ ए सी डी पानु शा. २ ए सी डी त्पादय°. ३ सी डी कि ... गृही. ४ बीणां ग्रही. ५ ए सी डी पाशिका. ६ सी डी "प्तः...निना. ७ सी डी भ्रंसिता. ८ ए सी डी सरणा°. ९ ए °मुदारण्यप. १० ए सी डी पसंत्या . ११ बी प्रमाद.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org