SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ ९८ व्याश्रयमहाकाव्ये [जयसिंहः] अभियोद्धम् । आघातकः । जेष्यन्व्रजति । इत्यत्र “क्रियायां०" [१३] इत्यादिना भविष्यति तुम्-शकच्-भविष्यन्त्यः । सस्यस्य शतुर्भविष्यन्त्या तुल्याथतया भविष्यन्तीग्रहणेन ग्रहणाजेष्यन्निति भविष्यन्त्युदाहरणं ज्ञेयम् ॥ रिपुशान्तिकारः । अन्न “कर्मणोण्" [ १४ ] इति भविष्यत्यण् ॥ बहुलाधिकाराण्णकचभविष्यन्त्यावपि । शुभमापको धर्ममुद्धरिप्य इति दोघुगं पश्यति ॥ कीर्तये दोर्युगं पश्यति । इत्यत्र "भाववचनाः'' [१५] इति भविष्यति क्तिः॥ इति वेशवद्युध्यपपादसङ्गमिह सारखजल्पति कार्यसारम् । अतिसारकिस्पर्शसरोगवच्च स्वमथाभिनिन्दन्ववले भटौघः ॥५७॥ ५७. इत्येवंप्रकारेणेह वेत्रिणि कार्यसारं कार्यस्य स्थिरमर्थ युद्धाभिमुखवलनरूपं कार्यरहस्यं सारवद्वलयुक्तं यथा स्यादेवं जल्पंत्यथानन्तरं भटौघो युधि यद्धार्थं ववले । कथम् । अतिशीघ्रं वलनादपगतः पादसङ्गो भूम्या सहाहिसंबन्धो यत्र तद्यथा स्याद्वेशवद्यथा वेशे वेश्यापाटकविषये सहर्षत्वादपपादसङ्गं वलते । कीदृक्सन् । आस्मानमभिनिन्दन । अतिसारकिस्पर्शसरोगवद्यथातिसारक्यतिसाररोगवान् स्पर्शन व्याधिविशेषेण सरोगो व्याधितश्चातिदुःखितत्वादात्मानं निन्दतः॥ अभजद्विसारालयवनरेन्द्रमथ वाहिनी वैरिपचप्रतापम् । द्विषि दायभीः प्रासभृदुज्झिताध्यायतपस्व्युपाध्याय्यभिनन्धमाना ॥५८॥ १ सी डी गमति सा. २ ए सी डी न्दञ्चचले. १बी सी डी खचल. २ सी ल्पति तथा. डी ल्पन्ति तथा. ३ डी र्थं चचले, ४ ए सी डी सस्यांहि. ५ डी वेश्या . ६ ए सी डी चल°. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003629
Book TitleDvyasrayakavya Part 02
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1921
Total Pages628
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy