________________
९७
[ है०५.३.१३.] द्वादशः सर्गः । यदि मृत्युरेत्यत्स्यति हिंसिता मा बत नश्यताथो+मरीन्मुहूर्तात् । अभियाति चेत्संग्रहरेत हन्ता परिजेष्यतीशः सुदृढास्तदाध्वम् ५५
५५. यदि मृत्युर्यमोपि युष्मानेत्यागमिष्यति तथात्स्यति भक्षयिप्यति तथा हिंसिता हनिष्यति । अथ तस्मादत हे भटा मा नश्यत । तथा मुहूर्ताइटिकाद्वयादूर्ध्व चेद्यदीशो जयसिंह एवारीनभियात्यभिमुखं यास्यति तथा संग्रहरेत प्रहरिष्यति हन्ता हनिष्यति परिजेध्यति च । तत्तस्मात्सुदृढाः सुस्थाः सन्तो यूयमाध्वं तिष्ठत ॥
यदि मृत्युरेति । अत्स्यति । हिंसिता । अथ मा नश्यत । इत्यत्र “पञ्चमी०" [११] इत्यादिना भविष्यति वा वर्तमाना। अत्र भाविमृत्यवागमनादि नाशाभावविषयस्य प्रेषस्यातिसर्गस्य प्राप्तकालतायाश्च हेतुर्भवति ॥
ऊर्ध्व मुहूर्तादीशश्चेत्संग्रहरेत । अभियाति । परिजेष्यति । हन्ता । सुदृढास्तदाध्वम् । इत्यत्र “सप्तमी च०" [१२] इत्यादिना सप्तमी वर्तमाना च वा ॥ अभियोद्धमाघातक एष जेष्यन् ब्रजति प्रभुणे रिपुशान्तिकारः । शुभमापको धर्ममथोद्धरिष्य इति दोर्युगं पश्यति कीर्तये च ५६
५६. एष प्रत्यक्षो वो युष्माकं प्रभुव॑जति । किमर्थमित्याह । अभियोद्धं शत्रुभिः सहाभियोत्स्य इति । तथाघातकोरीन्हनिष्यामीति । तथा जेष्यन्नरीजेष्यामीति । तथा रिपुशान्तिकारो जित्वा रिपूणां शान्ति करिष्य इति । अथ तथा दोयुगं पश्यति । किमर्थमित्याह । दोयुगेनामुना शुभं शत्रुजयोत्थं कल्याणमापक आप्स्यामीति । अथ तथा धर्ममुद्धरिष्य इति । कीर्तये च कीर्तयिष्ये स्वस्य कीर्तिमुत्पादयिष्य इति च ॥ १ सी डी ति यत्सं. १ सी डी हरि .
१३
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org