SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ व्याश्रयमहाकाव्ये . [ जयसिंहः ] -- ५३. वो युष्माकमुदितानि वचनानि धिग्गामहे । कानीत्याह । युधि कर्हि कस्मिन्ननद्यतने काले वयं यामो यास्यामस्तथारिघु मध्ये कर्हि भातास्मो विजयेन शोभिष्यामहेत एव उ इति संबोधने । कहीनं स्वामिनं तोषयिष्यामस्तथा उ हे भटाः कतमो भटोस्माकमाजि ददाति दास्यति तथा कतमः स्वर्दास्यति । रणे हि मृताः स्वर्ग यान्तीति रणे निपात्यास्माकं स्वर्ग दास्यत्यत एव कतमः सुयशश्च दातेति ॥ पुरास्ति । यावदपयाथ । इत्यत्र "पुरा." [७] इत्यादिना वर्तमाना भविष्यति ॥ कदा भविष्यति । कदा भविता । कर्हि यामः । कर्हि तोषयिष्यामः । कर्हि भातास्मः । अत्र “कदा." [ ८ ] इत्यादिना भविष्यति वा वर्तमाना । पक्षे भविष्यन्तीश्वस्तन्यौ ॥ कतमो ददात्याजिम् । दास्यति स्वः । सुयशो दाता । इत्यत्र “किं." [९] इत्यादिना वा वर्तमाना॥ अभयं प्रदत्ते शरणं प्रदाता विधुरेषु यो दास्यति चासुभिक्षाम् । श्रयति श्रियं द्यां श्रयिता श्रयिष्यत्यमृतं स एवं वदथाद्य किंतु ॥५४॥ ५४. स्पष्टम् । किंतु प्रदत्ते दास्यति । विधुरेषु सकष्टेष्वर्थादस्मासु विषये । असुभिक्षामसवः प्राणास्त एव भिक्षा तां जीवितव्यम् । श्रयति श्रयिष्यति । अमृतं मोक्षम् ॥ योभयं प्रदत्ते । असुमिक्षां दास्यति । शरणं प्रदाता । स श्रियं श्रयति । अमृतं श्रयिष्यति । द्यां श्रयिता । इत्यत्र “लिप्स्यसिद्धौ” [१०] इति वा वर्तमाना॥ १ बी पु क°. २ ए डी सी विता. ३ सी डी ना व. ४ बीट: । किं, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003629
Book TitleDvyasrayakavya Part 02
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1921
Total Pages628
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy