SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ [है० ५.३.१९.] द्वादशः सर्गः । ९९ ५८. अथ वैरिणः पचति सन्तापयति । लिहाद्यचि [ ५. १. ५०. ] वैरिपचः प्रतापो यस्य तं नरेन्द्र जयसिंहं वाहिनी सेनाभजत् । कीदृक्सती । प्रासभृत्कुन्तधारिण्यत एव द्विष्यरिजातौ दाया दातव्या भीर्यया सात एवोज्झिताध्याया भयान्मुक्तपाठा यास्तपस्व्युपाध्याय्यस्तपस्विनश्वोपाध्याय्यश्च ताभिरभिनन्द्यमाना विसारालयवद्यथा विसाराणां मत्स्यानामालयमब्धि वाहिनी नदी भजति ॥ पृतनाज्युपाध्याय ऋतं दिशन्ती दिवि शारनीशारमिवासभाभिः । नृपमन्वगादुद्यतमाशु शारोग्रनिशाटनिष्पावदलाभिलावे ॥५९ ॥ ५९. शारो वायुस्तद्वदुग्रा ये निशाटास्त एवोगत्वान्निष्पावदलानि वल्लपत्राणि तेषामभिलावे छेद उद्यतं नृपं पृतना सेनाश्वन्वगात् । कीहक्सती । आज्युपाध्याया रणेतिप्रवीणा तथास्त्रभाभिः कृत्व ऋतं सत्यं यथा स्यादेवं शारः कर्बुरवर्णो यो नीशारः प्रावरणं तमिव दिव्याकाशे दिशन्ती ददती नानारत्नस्वर्णखचितत्वेन नानावर्णकान्तीन्यायुधानि बिभ्रतीत्यर्थः ॥ पाद । रोग । वेश । स्पर्श । इत्यत्र “पदरुज०" [१६] इत्यादिना घजू ॥ स्थिरे । सारम् ॥ व्याध्यादौ । अतिसार । सारवत् । विसार । इत्यत्र "सर्तेः०" [ १७ ] इत्यादिना घजू ॥ वाहिनीत्यन्न वाहे । प्रतापम् । इत्यत्रं च "भावाकोंः " [१८] इति घञ् ॥ असंज्ञायामपि । दाय ॥ उज्झित । इत्यत्र बहुलाधिकारान्न स्यात् ॥ भावाकोरिति किम् । वैरिपच ॥ १ ए सी डी वास्वभा. १ ए सिंहिं वा. २ ए डी भिनिन्ध. सी °भिनेन्द्य. ३ सी निनल्ल°. ४ सी उद्यंतं. ५ ए सी डी थास्वभा०, ६ बी नीसारः. ७बी त्र भा०. ८ वी यामिति । दा. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003629
Book TitleDvyasrayakavya Part 02
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1921
Total Pages628
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy