SearchBrowseAboutContactDonate
Page Preview
Page 12
Loading...
Download File
Download File
Page Text
________________ प्रस्तावः। २५ उपमानसहितसंहितसहशफवामलक्ष्मणासुरोः २. ४. ७५. पाणि नीये लक्ष्मणशब्दस्थले लक्षणशब्दो वर्तते । २६ आसन्नादूराधिकाध्यर्धार्धादिपूरणं द्वितीयाद्यन्यार्थे ३. १. २०. अध्यर्धार्धादीति पाणिनीयादधिकम् । . २७ तत्रादाय मिथस्तेन प्रहृत्येति सरूपेण युद्धेऽव्ययीभावः ३.१.२६. पाणिनीये केशाकेशीत्यादीनामव्ययीभावत्वं बहुव्रीहित्वं च । अत्र तु अव्ययीभावत्वमेव । २८ पारेमध्येऽप्रेऽन्तः षष्ठया वा ३. १. ३०. अग्रेऽन्तःशब्दो पाणिनीयादधिको । २९ अव्ययं प्रवृद्धादिभिः ३. १. ४८. पाणिनीयादधिकमेतत् । ३० द्वित्रिचतुष्पूरणाग्रादयः ३. १.५६. पाणिनीयादग्रादय इत्यधिकम्। ३१ चतस्रार्धम् ३. १. ६६. ३२ परःशतादि ३. १. ७५. ३३ सर्वपश्चादादयः ३. १. ८०. ३४ सिंहाद्यैः पूजायाम् ३.१. ८९. एतत्सूत्रचतुष्कं पाणिनीयादधिकम्। ३५ क्तं नादिभिन्नैः ३. १. १०५. प्रकारार्थ आदिशब्दः पाणिनी____ यादधिकः । तेनात्र पीतावपीतमित्यप्युदाहृतम् । ३६ मासवर्णभ्रात्रनुपूर्वम् ३. १. १६१. मासशब्दोऽधिकः पाणि_नीयात् । किं तु पाणिनीये पूर्वोपस्थितत्वात्सेत्स्यति । ३७ संख्या समासे ३. १. १६३. पाणिनीयादधिकमेतत् । एतदपि पाणिनीये पूर्वोपस्थितत्वात्सेत्स्यति । ३८ ओजोऽञ्जःसहोऽम्भस्तमस्तपसष्टः ३. २. १२. पाणिनीयाद धिकोऽत्र तपश्शब्दः । तेन तपसाकृतमिति भवति । ३९ वर्षक्षरवराप्सरःशरोरोमनसो जे ३. २. २६. अप्-सरस्-उरस् मनस्-इत्येते शब्दाः पाणिनीयादधिकाः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003629
Book TitleDvyasrayakavya Part 02
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1921
Total Pages628
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy